This page has not been fully proofread.

सरः]
 
भूसंस्थाने मतभेदाः तन्निरासश्च
 
605
 
1
 
सर्वार्थसिद्धिः
 
इत्यादि: ; * तदिदं गणितविसंवादाभावेऽपि शास्त्रान्तरविरुद्धं
न कल्प्यं नचोपदिष्टमिति श्रद्धातव्यम् ॥ ६३॥
 
भूभ्रमणादिवादभङ्गः
 
आनन्ददायिनी
 
तदिदमिति-तस्यान्यपरत्वेन लोकोपदेशपरत्वाभावादित्यर्थः ॥ ६३ ॥
 
1
 
भूभ्रमणादिवादभङ्गः.
 
भावप्रकाशः
 
* तदिदमित्यादि ---- गोलमध्ये पातालादिलोकानां स्थितिकथन-
मात्रेण भुवोऽधस्तात् पातालादिलोकानां स्थितिः विष्णुपुराणाद्युक्ता
नैवोपपादिता । अधस्तात् स्थित्यनुपपादनेऽपि गोलमध्ये पातालादिलो-
कानां स्थित्यङ्गीकारे को विरोध इति चेत्; तत्र प्रत्यक्षाभावेन शब्द-
प्रमाणानुरोधेन तत्कल्पने स्वेच्छया कल्पनानवकाशात् पातालदेशा
इत्यादिरयुक्तेति । एवं मेरुर्योजनमात्र इत्युक्तिरप्ययुक्तैव ; तत्र विष्णु-
पुराणाद्युक्तिविरोधात् ज्योतिषकप्रक्रियामनुसृत्य वासिष्ठसूर्यसिद्धान्ता-
द्युक्तरीत्त्यैव वक्तव्यतया प्रकृते दक्षिणमेरोरकथनेन तत्कथनेऽप्यानुकूल्य-
विरहात्। दक्षिणमेरुश्चैतदसंमत इति परमेश्वरवाक्यादवगम्यते । यथाऽऽह
गोलदीपिकायाम्-
 
केचिद्वदन्ति भूमेरूर्ध्वं चाधः प्रविष्ट इति मेरुः ।
आर्यभटेनात्रोक्तं भूगोलात्तस्य मानमूर्ध्वगतम् ॥
 
इति विष्णुचित्ताचार्यैश्च ' तदन्तरपुटास्सप्त' इत्यादिपुराणवचनोदाहरणेन
सूर्यसिद्धान्ताद्युक्ता प्रक्रियाऽनुसृता भवति; 'पुराणकारस्य हि वैराग्योत्पा-
दने भगवन्माहात्म ज्ञापने च तात्पर्यात् न लोकसंख्यागणिते त्वत्यादरः '
इति च तैरुक्तम् । ? * शास्त्रान्तरविरुद्धमिति - तदविरुद्धा तु प्रक्रिया
 
2