2025-01-21 07:49:14 by ambuda-bot
This page has not been fully proofread.
604
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जदद्रव्य
सर्वार्थसिद्धिः
परिवृतकदम्बकुसुमग्रन्थिवत् मक्षिकावृतमधुगोळवच्च तिष्ठति ।
अमरा नरा ( मरा) व परस्परमधस्स्थितान् मन्यन्ते । पतनं च
सर्वेषां भूगोळमध्यदेशाभिमुखमेव । पृथिव्यंशास्तु अवकाशाला-
भान्न तत्र प्रविशन्ति । अतो महापृथिव्या न कदाचित्पत-
नम् ; तामपेक्ष्य कस्यचिदधोदेशस्याभावादिति । तदेतत्
भुवोऽधस्तादुपरि च लोकानुपदिशद्भिशास्त्रैरुपरुध्येत । यत्तु —
पातालदेशाः क्षितिगोळमध्ये सप्तोपदिष्टास्तलपूर्वकास्ते ।
इति ; यदपि —
मेरुर्योजनमात्रः प्रभाकरो हिमवता परिक्षिप्तः ।
नन्दनवनस्य मध्ये रत्नमयस्सर्वतो वृत्तः ॥
आनन्ददायिनी
तया परिसर प्रदेश इवावकाशाभावादित्यर्थः । अत इति यतोऽवकाशे
नास्ति महापृथिव्याः ततो न पतनमित्यर्थः । अवकाशाभावे हेतु :---
तामपक्ष्येति । यथा भवतां प्रकृतिरध उपरि (तः) च व्यापिनी ततोऽतिरिक्त-
प्रदेशो न ; तथा भुवः सर्वत इत्यर्थः । भूगोळमध्य एव ज्योतिश्शास्त्रे
पातालादय उपदिष्टा इति पक्षान्तरेऽपि शास्त्रावरोधस्समान इत्याह-यतिति ।
भावप्रकाशः
स्वरुः स्थलमध्ये इत्यादौ महरादिलोकानामनुक्तेः अधस्तनपाता-
लानामनुक्तेश्च नेदं युक्तमित्यभिप्रेत्याह-
1 * तदेतदित्यादि ।