2025-01-21 07:49:15 by ambuda-bot
This page has not been fully proofread.
सरः ]
भूसंस्थानादी मतभेदाः तन्निरासश्च
603
सर्वार्थसिद्धिः
योरयस्कान्तसमाधिं भूगोळे चायस्समाधिमारोपयन्ति ; तेऽपि
कल्पनागौरवोपहताः । भूगोळस्यैव हि तादृशशक्तिकल्पनं युक्तम् !
न तु दवीयसोरात्मस्थितिनिर्वाहसापेक्षयोर्ध्रुवयोः । 'केचिद्भूगो-
ळघनमध्यदेश एव सर्वेषामधोऽधोदेशः । तदभिमुखदत्तचरण एव
स्थलजलचरस्सर्वो जन्तुवर्ग: । भूमिस्तु तदाश्रिता नानाकेसर-
आनन्ददायिनी
दूषयति-- केचिदित्यादिना । भूगोलस्य पिण्डस्य मध्यदेशः कठिनी-
भूतपिण्डाकारेण परितश्च घनीभूतो भूगोळो मध्यस्थसौरमण्डलकसौर-
प्रभान्यायेन वर्तते । तन्मध्यस्थकठिन प्रदेशन्यस्तचरणास्तदभिमुखाश्च
सर्वे जन्तवो वर्तन्ते । अत एव सर्वेषामुपर्यधो भावबुद्धिः नरामराणां
भवति । भूलोकादयश्च तदाश्रिताः । तथाच कदम्बग्रन्थिः केसरपरिवृत
इव कठिनीभूतभगोळमध्यदेशो जन्तुवर्ग (लोक) परिवृतो भवति ।
जन्तूनामपि पततां पतनमपि भूगोळमध्यभूतकठिनप्रदेशाभिमुखमेव ।
तेषां च भूम्यंशभूतानां न तत्र भूमध्यभागे प्रवेशः । काठिन्येन निबिड-
भावप्रकाशः
स्वरुः स्थलमध्ये नरको बडबानलश्च जलमध्ये ।
अमरमरा मन्यन्ते परस्परमधस्स्थितान् नियतम् ॥
(आर्यभ. गो. १२)
तरुनगनगरनरासुरसुरैरयं केसरैरिव समन्तात् ।
भूगोलः कादम्बो मधुकरीभिरिव सर्वतः प्रथितः ॥
(धीवृद्धिदतन्त्रं - भूगोला. ६)
इति आर्यभटलल्लाद्युक्तिमभिप्रेत्याह -- ' *केचिदित्यादि ।