This page has not been fully proofread.

602
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाने
 
[ जडद्रव्य
 
सर्वार्थसिद्धिः
 
रस्ता । कर्परस्यापि निराधारस्य स्थित्यनुपपत्तेः । चतुरुदधि-
संक्षोभसहत्वस्य पृथिव्यामेव कल्पयितव्यत्वात् । 'येच पतनो-
त्पतनस्वभावभूतचतुष्टयमयत्वान्न पतति नोत्पतति च भूपिण्ड
इत्याहुः; तेषामन्यूनानतिरिक्ततादृशावस्थानोचित परिमाणैर्भूतै-
रारब्धः परिदृश्यमानमृच्छिलादिविलक्षणश्चागत्याऽन्य एव भूपिण्ड
इत्यादिकल्पना केवलमूहमात्रसिद्धा । अन्ये दक्षिणोत्तर ध्रुव-
आनन्ददायिनी
 
दूषणमाह- कर्परस्यापीति । बाधकं परिहरति-चतुरुदधीति । ये चेति-
वायुतेजसोरुत्पतनस्वभावत्वात् भूजलयोः पतनस्वभावत्वात् परस्परकार्य-
प्रतिबन्धेनावस्थानमित्यर्थः । तेषामिति - दृश्यमानस्य भूपिण्डस्य पृथिवी -
भूयस्त्वेन भूतान्तरावयवसमत्वादिति भावः ।
 
' उभयोर्भूम्ना ध्रुवयोः विधृतेयमयस्कान्तनित्या भूः ।
 
इति ज्योतिर्मतमनूद्य दूषयति — अन्ये इत्यादिना । मरीचिसिद्धान्तं
 
भावप्रकाशः
 
1*ये चेति - अयं पक्ष: उदाहृतज्योतिषिकग्रन्थेषु नोपलभ्यते ।
 
2 * अन्ये इति — लल्लवराहमिहिरादयः ; यथा -
 
इति ।
 
मध्येsयस्कान्तानां यथास्थितोऽयोगुडः खमध्यस्थः ।
 
तद्वदनाधारोऽपि हि सर्वाधारो महीगोळः ॥
 
(धवृिद्धिदतन्त्रं भूगोला. २)
 
यद्वत्कदम्बपुष्पग्रन्थिः प्रचितः समन्ततः कुसुमैः ।
तद्वद्धि सर्वसत्वैः जलजैः स्थलजैश्च भूगोळः ॥
 
(आर्यभ. गो. ७)