2025-01-21 07:49:07 by ambuda-bot
This page has not been fully proofread.
सरः]
भूपतनवादनिरासः
सर्वार्थसिद्धिः
601
आगमानुविधायिनां तु सर्वाधारेण ब्रह्मणा 'सोपधानं निरुप-
धानं च विधृतेति। अत एव पृथिव्याधारस्थिरतरकर्परक्लप्तिः 'नि-
आनन्ददायिनी
नाभ्युपगम्यते ? इत्यत्राह -- आगमानुविधायिनामिति । सोपधानं -
कूर्मदिग्गजनागराजादिशरीरद्वारकम् ; सङ्कल्पमात्रेण च धृतिरित्यर्थः ।
ये तु शैवाः
सामुद्राम्भसि विन्यस्तकर्परस्था तु मेदिनी ।
संक्षोभं सा तु नायाति तरङ्गावर्तसंकुला ॥
इत्याहुः ; तन्मतमनुवदति - अत एवेत्यादिना ।
भावप्रकाशः
।
इति । * सोपधानमिति - आदिशेषकमठादितात्पर्येण कटाहबहिराव-
रणतात्पर्येण च । 2 निरुपधानमिति । ' वासुदेवः परं ब्रह्म' इत्यारभ्य
संकर्षणानिरुद्धादिसृष्टिमभिधाय -
बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ।
मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥
इति सूर्यसिद्धान्ते उपसंहृतम् ।
3
** निरस्तेति – अयं पक्षो भास्करेणापि निरस्तः---
मूर्तो धर्ता चेद्धरित्रयास्ततोन्यः तस्याप्यन्योऽस्यैवमत्रानवस्था ।
अन्त्ये कल्प्या चेत् किमाद्ये स्वशक्तिः किं नो भूमेः साष्टमूर्तेश्च मूर्तिः? ॥