2025-01-21 07:49:07 by ambuda-bot
This page has not been fully proofread.
600
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
सर्वार्थसिद्धिः
तीनामधिकपतनकल्पनं चापहास्यम् । पोतवालुकादिन्यायस्त्विह
दुर्वचः उपष्टम्भकादिविशेषस्यानभ्युपगमात् । तत्कल्पने च
तस्याप्यन्यत्कल्प्यं इत्यनवस्थानात् । वायुविशेषस्योपष्टम्भकत्व-
कल्पने तेनैव नित्यमपतनमिति किं न रोचते ? तदिह युक्ति -
मात्रशरणानां निराधारापि स्वभावादेव तिष्ठति भूमिः ।
आनन्ददायिनी
पोतवालुकेति । तत्र युक्तं गुरुतरस्यापि पोतस्य पृथुतया जलेन प्रतिबन्धात्
पतने वेगाभावः ; न चात्र तथा प्रतिबन्ध इति भावः । नन्वत्राप्युप-
ष्टम्भकमस्त्वित्यत्राह— तत्कल्पने चेति । तथाच गौरवमिति भावः ।
ननु वायुविशेष उपष्टम्भकनिरपेक्ष उपष्टम्भको भवत्वित्यत्राह – वायु-
विशेषस्येति । वायुविशेषस्योपष्टम्भकस्य कल्पनापेक्षया स्वभावादव-
स्थानं कल्प्यताम् ! लाघवात् इत्याह-- तदिहेति । भवद्भिः किमिति
भावप्रकाशः
* स्वभावादेवेति — यथाऽऽह लघ्वार्यभटः
१६-४)-
-
-
-
(महासिद्धान्त
अनिलाधाराः कोचत् केचिल्लोका वसुन्धराधाराः ।
वसुधा नान्याधारा तिष्ठति गगने स्वशक्त्यैव ॥
इति । भास्कराचार्यैरपि – (शिरोमणि. गोला. भुवनको २ )
: पिण्डश्शशाङ्कज्ञकविराविकुजेज्या र्केनक्षत्रकक्ष्या-
वृत्तैर्वृत्तो वृतस्सन् मृदनिलसलिलव्योमतेजो मयोऽयम् ।
नान्याधारः स्वशक्त्यैव वियति नियतं तिष्ठतीहास्य पृष्ठे
निष्ठं विश्वं च शश्वत्सदनुजमनुजादित्यदैत्यं समन्तात् ॥
भूमेः