2025-01-21 07:49:03 by ambuda-bot
This page has not been fully proofread.
सरः]
भूपतनवादनिरासः
सर्वार्थसिद्धिः
599
निरालम्बे निरवधौ नभसि नित्यं निपतन्तीमलब्धप्रतिष्ठां भुवं कः
प्रतिरुन्ध्यादिति चेन्न ; 'वासुदेवस्य वीर्येण विधृतानि' इत्या-
दिना तत्सिद्धेः । भूपतने चोत्क्षिप्ताश्शिलादयो न कदाचिद्भुवं
प्राप्नुयुः । गौरवप्रकर्षकाष्टाभूताद्भूमण्डलादतिलघीयसां रजःप्रभृ-
आनन्ददायिनी
लिङ्गमिति चोदयति—— निरालम्बे इति । निरवधित्वं - - - सन्ततपतनहेतुः ।
तथा च सर्वदा निरालम्बत्वे सति गुरुत्वात् सन्ततपतनमनुमीयत
इत्यर्थः । हेत्वसिद्धिमाह - वासुदेवस्येति--
वासुदेवस्य वीर्येण विधृतानि महात्मनः ।
इति विष्णुपुराणादौ भूम्यादेर्विधृतत्वप्रतीतेरित्यर्थः । प्रमाणाभावमुक्ता
बाधकतर्कमप्याह --- भूपतने चेति । उत्क्षिप्तशिलादेः पतनेन भूप्रदेश-
प्राप्तिसमयेऽन्धकूपादौ प्रथमपतितशिला (तल) वत् भुवोऽतिवेगेनाधःपातात्
पश्चात्पतच्छिलायाः प्राक्पतच्छिलाप्राप्तयभाववत् भूप्राप्तिरेव कदाऽपि
न स्यादिति भावः । ननु प्रथमं पतत्तृणादितः पश्चात्क्षिप्तपाषाणादिकं पतन-
काल एव वेगातिशयात्प्राप्तमुवद्दष्टमित्यत्राह - गौरव प्रकर्षेति । नन्वत्यन्त-
गुरुभूतस्यापि पोतस्य जलधेः पतनं मन्दं दृश्यते; वालुकायास्तु
लघीयस्याः शीघ्रं दृश्यत इति कथमपहास्यता ? इत्यत्राह --
भावप्रकाशः
अतस्सपक्षो बुद्ध्या परिकल्पितस्स्यात् । तत्र पतनपक्षोक्तदूषणैरेव उत्प-
तनपक्षेऽपि दोषस्सूह इति तात्पर्येण भास्करादिभिरुत्पतनपक्षे दोषो
नोक्त इति भावेनाचार्यैरपि स पक्षो नोपन्यस्तः ॥