2025-01-21 07:49:03 by ambuda-bot
This page has not been fully proofread.
सरः]
भूभ्रमणसाधकलाघवतर्कनिरासः
तत्वमुक्ताकलापः
597
तान्तौ प्राक्प्रतीचोः प्रसजति पतने प्रत्रिणोस्ता-
सर्वार्थसिद्धिः
भ्रमकल्पनं वरमित्ययुक्तम् ; ताराभ्रमणादेरागमिकस्याकल्प्य-
त्वाच्च । तदेतत्सर्वमाभिप्रेत्याह — तद्भान्तौ इति ॥
आनन्ददायिनी
भ्रमणमपि न स्यादित्यत्राह - ताराभ्रमणादेरिति । इदमुपलक्षणम् - तारादे-
विदेशप्राप्तिश्च दृश्यत इति भ्रमणलिङ्गं तत्रास्ति ; न च भूभ्रमणे लिङ्ग
वास्तीति भावः । ननु तारादेः देशान्तरस्थतया दर्शनं न तल्लिङ्गं
भवितुमर्हति ; भूभ्रमणेन द्रष्टुः विप्रकर्षमात्रादपि तत्प्रतीतेरिति चेन्न ;
तारादेर्देशान्तरस्थताज्ञानं तत्रैव गतिमनुमापयति । परामर्शस्य स्वविषय-
समानाधिकरणस्यै(णतयै)वानुमापकत्वात् । स्थिरस्य पर्वतादेर्निकट-
दृष्टस्य दूरे दृष्टिस्तु न पर्वतस्य गतिमनुमापयति ; तत्र द्रष्टुर्गतिमत्त्वस्य
प्रत्यक्षदृष्टत्वेन अन्यथासिद्धत्वात् न च तारादेरनेकस्य भ्रमणकल्पना-
गौरवम्; चक्रस्यैकस्यैव भ्रमणकल्पनादिति भावः । तद्भान्ताविति
भावप्रकाशः
इति । तत्रैव जम्बूद्वीपादिकमुक्तम्-
भूमेरर्धं क्षारसिन्धोरुदक्स्थं जम्बूद्वीपं प्राहुराचार्यवर्याः ।
अर्धेऽन्यस्मिन् द्वीपषट्कस्य याम्ये क्षारक्षीराद्यम्बुधीनां निवेशः ॥
इति । एवं वर्षादिविभागोऽपि भुवर्लोक एवोपपादितः । प्रक्षादिद्वीप -
विभागोऽपि उपपादितः । अयमेवार्थः दैवज्ञविलासे विस्तरेणोक्तः ।
पौराणिकी प्रक्रिया तु श्रीविष्णुपुराणादौ द्रष्टव्या ।