2025-01-21 07:49:02 by ambuda-bot
This page has not been fully proofread.
596
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
भावप्रकाशः
ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः ।
होरेशास्सूर्यतनयादधोऽधः क्रमशस्तथा ॥
जडद्रव्य
(सू. सि. भूगोला. ७८-७९ )
इतीदं कारिकाद्वयं रङ्गनाथदैवज्ञेन विवृतम्-
शनेः सकाशादधः कक्ष्याक्रमेण चतुर्थसङ्ख्याका ग्रहाः दिनाधि -
पतयो वारेश्वरा भवन्ति । यथा शनिरविचन्द्रभौमबुधगुरुशुक्राः इति
तत्क्रमः । वर्षस्य षष्ट्यधिकशतत्र्यदिनात्मकस्य स्वामिनः तद्वत् मन्दा-
दधःक्रमेण तृतीयसङ्ख्याका ग्रहा उक्ताः । चस्समुच्चयार्थे । तत्क्रमश्च
यथा – शनिभौमशुक्रचन्द्रगुरुसूर्यबुधा इति चन्द्रात्सकाशात् ऊर्ध्वकक्षा-
क्रमेण ग्रहा मासानां त्रिंशद्दिनात्मकानां स्वामिनः कथिताः । तत्क्रमश्च-
चन्द्रबुधशुक्ररविभौमगुरुशनयः इति । शनेस्सकाशादधः क्रमशः अधः
क्रमेण होरेशाः इति ॥
-
एवं उक्तकक्ष्याक्रमाङ्गीकारे राश्याधिपत्योपपत्तिरपि । अयमर्थः
स्सारावळ्यां सम्यगुपपादितः (३-१० ).
द्वादशमण्डलभगणस्तस्यार्धं सिंहतो रविर्नाथः ।
कर्कटकात्प्रतिलोमं शशी तथाऽन्येऽपि तद्दानात् ॥
इति । भपञ्जरस्सग्रहो भ्रमतीत्यत्र भगोलीयक्रान्तिवृत्तान्तर्गतराश्याधि-
पत्यं ग्रहाणां उक्तकक्ष्यामनुसृत्य भ्रमणाङ्गीकारे उपपद्यते । भूभ्रमणपक्षे तु
नोपपद्यत इति गूढाभिसन्धिः । तत्प्रकटनं प्रथमत एव कृतम् । उपलम्भा-
नुसारस्येत्यत्र तदेतत्सर्वमाभिप्रेतम् ।
त्रिलोकशिब्दार्थश्च ज्यौतिषिकैरेवमुक्तः, यथा सूर्यसिद्धान्तानु-
सारिणा भास्कराचार्येण-
भूर्लोकाख्यो दक्षिणो व्यक्षदेशात् तस्मात्सौम्योऽयं भुवः स्वश्च मेरुः ।