This page has not been fully proofread.

सरः]
 
भूस्थैर्ये ज्यौतिषिकनिबन्धसंमतिः
 
595
 
भावप्रकाशः
 
मयुक्तम् । उदयास्तमयादौ ग्रहाणां स्थूलतया दर्शनं उच्चस्थितिदशायां
किंचित्सूक्ष्मतया दर्शनमनुभवसिद्धम् । नक्षत्राणां तु न तथा । भूभ्रमणपक्षे
उभयोरप्युदयास्तपूर्वकभ्रमणाभावेन नक्षत्राणामपि ग्रहवदेव स्थौल्यां
सौक्ष्म्यविशेषदर्शनं वा; नक्षत्राणामिव ग्रहाणामपि स्थौल्यसौक्ष्मय-
विशेषदर्शनं वा स्यात् । अस्मन्मते तु ग्रहाणां भ्रमणं नक्षत्राण-
त्वभ्रमणमिति ग्रहाणां क्षितिजसंनिध्यसंनिधिभ्यां स्थौल्य सौक्ष्मदर्शन-
योरुपपत्तिः । तदुक्तं श्रीपतिना -
 
वसुन्धरागोळनिरुद्धधामा दूरस्थितोऽयं सुखदृश्यबिम्बः ।
महीजवृत्तोपगतो विवस्वान् अतो महान् भात्यरुणो विरश्मिः ॥
 
इति । भास्करेणापि -
 
(सिद्धान्तशे)
 
उच्चस्थितो व्योमचरस्सुदूरे नीचस्थितस्स्यान्निकटे धरित्रयाः ।
अतोऽणुबिम्बः पृथुलश्च भाति भानोस्तथाऽऽसन्नसुदूरवर्ती ॥
 
(शिरोमणि - गोळा, छेद्यका - २२)
 
उदयास्तमयनिमित्तमित्यादिना सग्रहभपञ्जरभ्रमणवादिनः अर्यभटस्य
भूभ्रमणपक्षे इदं न युज्यत इति विवक्षितम् । एवं-
 
भानामधरशनैश्चरसुरगुरुभौ मार्क शुक्रबुधचन्द्राः ।
 
तेषामश्च भूमिः मेथीभूता खमध्यस्था ॥
 
इति अर्यभटीयग्रहकक्ष्यावचने मेथी भूतेत्यनेन भूमेः स्थिरत्वं प्रतिज्ञातम् ।
तत्र च उक्तग्रहकक्ष्याक्रमो मूलम् । भूभ्रमणवादिभिस्तु नैवं कक्ष्याक्रम
उच्यते इति । एवम् —
 
मन्दादधः क्रमेण स्युः चतुर्थी दिवसाधिपाः ।
वर्षाधिपतयस्तद्वत् तृतीयाश्च प्रकीर्तिताः ॥
 
38*