This page has not been fully proofread.

594
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[ जडद्रव्य
 
शास्त्रोपलम्भविरोधान्न कल्प्यः । भुव एव वायुवददृष्टवशात्तादृश-
भ्रमणोपपत्तेः । स्यादेवम् । किंनच्छिन्नम् इति चेन्न; उपलम्भा-
नुसारस्य छिन्नत्वात् । अत एवानन्तताराग्रह भ्रमणकल्पनादेक-
आनन्ददायिनी
 
कल्प्यतां किं तादृशवायुनेत्याह -- भुव एवेति । किं नश्छिन्नमिति
भूभ्रमणस्याभीष्टस्य सिद्धत्वादिति भावः । उपलम्भेति - भुवः स्थर्यस्यो -
। —
 
-
 
पलम्भादित्यर्थः । अत एवेति - उपलम्भविरोधादेवेत्यर्थः । ननु तर्हि भचक्र-
 
भावप्रकाशः
 
1
 
'
 
भावः । स्वत एव भ्रमतीति द्वितीयपक्षमुत्थापयति भुव एवेत्यादि ।
तद्दृषयति—2* उपलम्भानुसारस्येति । भूमेर्बहिः प्रबलवायुविशेषकल्प-
 
पूर्वोक्तदूषणपरिहाराङ्गीकारे उपलम्भस्वारस्यं छिन्नमेवेति भावः ।
अयमाशयः—सग्रहभपञ्जरभ्रमणं प्रत्यक्षतस्सिद्धम् । भूगोलभ्रमणं तु न
प्रत्यक्षम् । अपि तु काल्पनिकमेव । तत्र दूषणप्रसक्तौ भूगोलस्थपृथिवी-
भागस्य वायुमन्तरा भ्रमणस्य प्रत्यक्षतस्सिद्धत्वेऽपि भोगोलस्य स्वभाव-
विशेषाद्भ्रमणामित्यपरा कल्पना । पक्ष्यादीनां नोदनहेतुवायुविशेषप्राबल्य-
कल्पनेन पूर्वोक्तदूषणपरिहारेऽपि तादृशप्राबल्यमनुपलब्धमिति तदपि
कल्पनीयम् । किंच भुवः स्वभावविशेषाद्रमणकल्पकेन वायुविशेषमन्त-
रेण स्वभावविशेषेण पूर्वोक्तदूषणानां परिहारसंभवात् वायुविशेषो वा
कुतः परिकल्पयः ? किंच स्वभावविशेषोक्तिः प्रत्यक्षसिद्ध एवार्थे प्रामा-
णिकानां न तु काल्पनिकेऽर्थे; भुवस्तु अचलत्वमेव प्रत्यक्षसिद्धम् ।
तदेव स्वभावतः । यथोक्तं भास्करेण - 'मरुच्चलो भूरचला स्वभावतः' इति ।
अतस्सर्वस्यापि परिकल्पनया भुवः अचलत्वोपलम्भे भ्रान्तित्वकल्पन-