This page has not been fully proofread.

सरः]
 
भूभ्रमणहेतुवायुनिरासः
 
593
 
सर्वार्थसिद्धिः
 
प्रबलमारुतस्यानुपलम्भनिरस्तत्वात् । सर्वेषां प्रत्यङ्कुखगतिप्रति-
रोधप्रसङ्गाच्च । यो हि महापृथिवीं प्रभञ्जनः प्रसभमावर्तयति तं कथं
लघीयांसो विहङ्गादयः प्रतिसरेयुः ? किन्तु पृथिव्याः पूर्वमेव
प्राङ्मुखं दूरमपनीयेरन्; किंच ज्योतिर्गणभ्रमणहेतुर्मारुतः शास्त्रा-
भ्यनुज्ञानात् प्रत्यक्षविरोधाभावाच्च संगृह्यते । भूभ्रमणहेतुस्त्वसौ
आनन्ददायिनी
 
तदङ्गीकारे बाधकमप्याह – सर्वेषामिति । आकाशसंचारिणामित्यर्थः ।
तदेवोपपादयति — यो हीति । किञ्च भूभ्रमणे कारणाभावमप्याह-
किञ्चेति । शास्त्रदृष्टविरुद्धकल्पनेऽपि भुव एव तादृशभ्रमणसामर्थ्यं
 
भावप्रकाशः
 
भूवायुरावह इह प्रवहस्तदूर्ध्व-
 
स्स्यादुद्वहस्तदनु संवहसंज्ञकश्च ।
 
अन्यस्ततोऽपि सुवहः परिपूर्वकोऽस्मात्
 
बाह्यः परावह इमे पवनाः प्रसिद्धाः ॥
 
(गोलाध्या. भुवन. १)
 
भूमेः बहिर्द्वादशयोजनानि भूवायुरत्राम्बुदविद्युदाद्यम् ।
 
(गोलाध्या. भु. २)
 
-
 
इति शास्त्रेणास्माभिर्भूमेर्बहिर्वायुविशेषा अङ्गीक्रियन्ते ; कल्पकेन तु
भुवो भ्रमणं कल्पनेनैव बोधनीयम् ; वायुविशेषस्य तु प्रत्यक्षेण कियद्दूर-
मुपलब्धिर्वर्तते । ततस्तत्प्राबल्यं तूपलम्भेन न निश्चेतुं शक्यत इति
 
SARVARTHA
 
38