This page has not been fully proofread.

सरः]
 
भूभ्रमणपक्षदूषणम्
 
सर्वार्थसिद्धिः
 
591
 
च स्वदेशपश्चिमभाग एव तेषां निपातस्स्यात् 'उड्डीनाश्च पक्षिणो
न कुलायमासीदेयुः । प्रत्यङ्कुखं च गच्छतां दुःखेनापि न संनि-
 
आनन्ददायिनी
 
क्षेपः परभागे पातप्रसङ्गश्चेत्यर्थः । उड्डीनाश्चेति ——- तीव्रतरं भ्रमणेन
प्रतिक्षणं कुलायादिपुरो धावन्ने (नि)वानुधावता दूरस्थ एव स्यादित्यर्थः ।
प्रत्यङ्मुखं पततामिति---यत्र पक्षी तत्र कुलायादेस्सन्निध्यसम्भवादिति
भावः । प्राङ्मुखमिति—— उद्देश्यदेशस्य पूर्वन्यायेन दवीयस्त्वादिति
 
भावप्रकाशः
 
1* निपातस्स्यादिति । अयमर्थः-
 
इषवोऽभिनभस्समुज्झिताः निपतन्तस्स्युरपांपतेर्दिशि ।
 
इत्यभिहितो लल्लाचार्येण । 2 * उड्डीनाश्चेति-
 
1
 
( धीवृ. तं मिथ्या ४२ )
 
--
 
यदि च भ्रमति क्षमा तदा स्वकुलायं कथमामुयः खगाः
 
इति तत्पूर्वार्धेन तेनैवोक्तोऽयमर्थः ।
 
यद्येवं श्येनाद्याः न खात्पुनः स्वनिलयमुपेयुः ।
 
इति 'भ्रमति भ्रमस्थितेव' इत्यादिश्लोकोत्तरार्धेनोक्तो वराहमिहिराचा-
 
येणापि (पं. सि. १६–५) ।
 
यद्येवमम्बरचरा विहगाः स्वनीड-
 
मासादयन्ति न खलु भ्रमणे धरित्र्याः ।
 
इति श्रीपतिनापि (सिद्धान्तशेखरे ) ।
 
किञ्चाम्बुदा अपि न भूरिपयोमुचस्स्युः
 
देशस्य पूर्वगमनेन चिराय हन्त ।