2025-01-21 07:48:52 by ambuda-bot
This page has not been fully proofread.
590
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
मुञ्चन्ती द्रुततरमधरोत्तरवृत्त्या भूभ्रमति' इति हि तद्भान्तिपक्षः ।
'अत्रोत्क्षिप्ताश्शिलादयः स्वदेशे तदासन्ने वा कथं निपतेयुः । नित्यं
आनन्ददायिनी
भूभ्रमणपक्षे दूषणमाह---तत्रोत्क्षिप्ता इति । यत्र स्थितेनोत्क्षेपः कृतः
भ्रमणे सति तदन्यदेशस्यैव तदाकाशऋजुप्रदेशत्वात् तदन्यदेशे पतनं
स्यात् । प्राग्देशपतनार्थं क्षिप्तस्य पाषाणादेः इषुयन्त्र क्षिप्तपाषाणादिवत्
भावप्रकाशः
सिद्धान्तानुसार्यर्थ एव अनुलोमगतिनस्थ इत्यत्र विवक्षित इति श्रीपते-
राशयः । आचार्यपादाश्च लल्लवराहमिहिराचार्योक्तदिशा भुवः भ्रमणपक्षे
दूषणमभिधास्यन्तः तथैव दूषणमभिदधानस्य श्रीपतेः स्वस्य च तदुक्त-
दिशैव अनुलोमगतिर्नोस्थः इत्यत्र सिद्धान्तानुसार्यर्थोऽभिमत इत्याशयं
स्फुटतरमभिव्यञ्जयन्तीति ।
पूर्वाभिमुखे भ्रमे भ्रुवः (धीवृद्धिदतन्त्रं मिथ्याज्ञाना. ४३ )
भ्रमति भ्रमस्थितेव क्षितिरित्यपरे वदन्ति नोडुगणः ।
(पञ्चसिद्धा १३-६)
पूर्वाभिमुखं भ्रमति क्षोणी नास्ति भ्रमः खगक्षणाम् ॥
।
(गोलदीपिका २७)
इत्यादिषूक्तं भूभ्रमणप्रकारं निर्दिशति - ' * इति हि तान्तिपक्ष इति ।
अत्र भुवः भ्रमिवत् पार्श्वभ्रमणमप्युपस्कृतम् । 2 * शिलादय इति --
उत्तरत्र शरविहङ्गादीनामपीत्यनुवादग्रन्थे शरस्यैव प्रथमग्रहणेन शरादय
इति पाठस्स्यादिति प्रतिभाति : ज्योतिषग्रन्थेष्वपि शरस्यैव निर्देशाच्च ।