2025-01-21 07:48:52 by ambuda-bot
This page has not been fully proofread.
सरः ]
आर्यभटस्य भूभ्रमणपक्षतात्पर्याभावः
589
भावप्रकाशः
वृत्तः इति भुवः प्रसक्तिर्वर्तते । तत्र भूः तिष्ठति चलति वेति संदेहे
युगरविभगणा इति श्लोकार्थानुसन्धानेन भुवश्चलनस्यैव प्रतीतिः न तु
स्थिरतायाः । चलनप्रतीतिमेव भ्रान्तिरूपामुपपादयितुं अनुलोमगतिर्नोस्थ
इत्यादिकारिका प्रवृत्ता । अनन्तरं च सुस्थिरस्यैव भपञ्जरस्य चलनज्ञानं
किं न स्यात् ? इति शङ्कानिवृत्त्यर्थं भचक्रं ध्रुवयोर्बद्धम् ' ' मध्ये
समन्तादण्डस्य' इति पूर्वोदाहृतसूर्यसिद्धान्तश्लोकद्वयानुरोधेन भूगो-
लस्य स्थितेः ; भचक्रस्य प्रवहानिलेन भ्रमणस्य-
6
उपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखस्सदा ।
(सू. सि. भूगोळाध्याये ५५)
इति सूर्यसिद्धान्तानुरोधेन लङ्कासमपश्चिमगत्वस्य च निर्णयेन तत्र
भूगोलस्थितेः पूर्वश्लोकेन भपञ्जरस्थितेरुत्तरश्लोकेन स्वरूपविशेषनिर्णय
इति सुस्पष्टं प्रतीयते । अतोऽत्र सुस्थिरस्य भपञ्जरस्य चलत्वेन ज्ञानं
मिथ्येत्यार्यभटस्याशयवर्णनमयुक्तम् ; ' मन्दामरेड्यभू पुत्र' इत्यादि सूर्यसि-
द्धान्तानुसारेण भानामधरशनैश्चरेत्यादिना अत्र च ग्रहकक्ष्यावर्णनं भुवः
स्थिरत्वं द्रढयति भ्रमणं चापाकरोतीत्युपरिष्टान्निरूपयिष्यते । लल्लाचार्येण-
वरवशेन कुशेशयजन्मनो न चलतीति वदन्ति मनीषिणः ।
इति भुवोऽचलत्वोक्तेः; भुवः प्राग्गत्यङ्गीकारे दोषाणामभिधानाच्च ।
लल्लाचार्यश्च आर्यभटशिष्य इति ' तथाच तच्छिष्यो लल्लाचार्यः '
इति कालक्रियापादस्थ १० मश्लोकव्याख्यानावसरे परमेश्वरेण भटदीपि-
कायां साधितम् । वराहमिहिरेणापि पञ्चसिद्धान्तिकायां-
पञ्चमहाभूतमयः तारागणपञ्जरे महीगोलः ।
खेयस्कान्तान्तरस्थो लोह इवावस्थितो वृत्तः ॥
इति भुवः स्थिरत्वमभिधाय गतिमत्त्वे दोषाणामभिधानाच्च वराहमिहिर-
स्यापि भूस्थैर्यमेव प्राचीन सिद्धान्तानुसारेणाभिमतम् । अतोऽत्र सूर्य-