This page has not been fully proofread.

588
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
भावप्रकाश:
 
भ्रमणमस्तीति नवमं सूत्रम् - उदयास्तेत्यादि ' इत्युदयास्तेत्यादिश्लोक-
 
मवतारयामास ।
 
-
 
6
 

 
'
 
यद्यपि श्रीपतिना इयं कारिका भूभ्रमणस्य तात्विकत्वपरतया
व्यख्यातेव प्रतिभाति ; तथाऽपि तेनैव आर्यभट श्लोकव्याख्याच्छायापन्न-
स्ववाक्ये केचिदित्युक्तया इयं व्याख्या केषां चित्संमता न तु स्वाभिमतेति
सूचितम् । अत्रेदमवधेयम् – यद्यपि ' युगरविभगणाः ; इति श्लोके
उपक्रमे भुवो ग्रहाणां चाविशेषेण प्राग्गतिमत्त्वमभिहितम् । तत्र
भुवः प्राग्गतिमत्त्वं मिथ्याज्ञानसिद्धं ? आहोस्वित् प्रवहाधीनभपञ्जर-
प्रत्यग्भ्रमणं मित्याज्ञानसिद्धमिति विचारे अनुलोमगतिर्नोस्थः इत्यस्य
प्रथमकोटिपरत्वमेवाचितम् । भूग्रहभानां इति पूर्वं भुवः ग्रहाणां
चाविशेषेण दीप्तिमुक्ता अनन्तरं ' वृत्तभपञ्जरमध्ये ' ' यद्वत्कदम्ब -
पुष्पग्रन्थिः ' इत्यादिश्लोकद्वयेन भूगोळस्वरूपमुपपादितम् । तत्र
भुवः वृत्तभपञ्जरस्य च प्रसङ्गो वर्तते । तत्र ' भपञ्जरस्सग्रहो भ्रमति '
इत्युत्तरश्लोके भपञ्जरपदोपादानेन 'वृत्तभपञ्जरमध्ये ' इति श्लोकार्थ
एव दृढीक्रियते इति स्फुटं प्रतीयते. अतः पूर्वश्लोकः भूगोल-
स्वरूपविशेषनिर्णयार्थमेव प्रवृत्त इत्युभाभ्यामप्यङ्गीकरणीयम् । तत्र
भूभ्रमणवादिना सुस्थिरस्य भपञ्जरस्य लङ्कासमपश्चिमगत्वेन चलत्वेन
ज्ञानं मिथ्या इत्यर्थः प्राधान्येनेोपपादनीयः । तत्र भूगोलस्वरूप -
निर्णयश्च आर्थिक एव भवति न तु शाब्दः । पूर्वश्लोके मिथ्याज्ञान-
विषयभूतार्थस्य उत्तरश्लोके भपञ्जरस्सग्रहो भ्रमतीति स्थापनेन तदपि
मिथ्याज्ञानसिद्धमेवेति भवता वाच्यमिति सर्वलो को पहासप्रसङ्गः । पश्यतीति
पूर्वश्लोक उपादानात् पूर्वश्लोकमात्रं मिथ्याज्ञानपरमिति उत्तरश्लोके पश्य-
तीति पदानुपादानेन तात्विकार्थ एवोत्तरश्लोकार्थ इत्यकामेनापि भव-
ताऽपि स्वीकार्यम् । एवं च वृत्तभपञ्जरमध्ये इति श्लोके भूगोलस्सर्वतो