2025-01-21 07:48:51 by ambuda-bot
This page has not been fully proofread.
सरः ]
भूभ्रमणपक्षानुवादः
587
तत्वमुक्ताकलापः
तथा मेदिनीभ्रान्तिपातौ ।
सर्वार्थसिद्धिः
तत्वमतिदिशति -'*तथेति । इषीकाप्रोतपत्रिकादिवत् स्वदेशं
भावप्रकाशः
द्वौद्वौ रवीन्दू द्विगुणां भसस्थां चतुर्विधस्तम्भनिभं च मेरुम् ॥
इति । * तथेति — भ्रान्तैः क्लृप्तावित्यर्थः । तदुक्तं गोलदीपि -
कायां परमेश्वरेण-
:
पूर्वाभिमुखं भ्रमति क्षोणी नास्ति भ्रमः खगर्क्षाणाम् ।
-
;
इति किल वदन्ति केचित् नाभिमतं तदपि चार्यभट्टस्य ॥
इति । 'अनुलोमगतिर्नौस्थः' इति कारिका चेत्थं विवृता तेनैव भट्टदीपि
कायाम् –'भूमेः प्राग्गमनं नक्षत्राणां गत्यभावं च केचिदिच्छन्ति
तन्मिथ्याज्ञानवशादित्याह – अनुलोमगतिरित्यादि ।
यथा नौयानं
कुर्वन् पुरुषः अनुलोमगतिः - स्वाभिमतां पश्चिमां दिशं गच्छन् ।
अचलम् — नद्या उभयपार्श्वगतमचलं वृक्षपर्वतादि वस्तु विलोम -
प्राचीं दिशं गच्छदिव पश्यति ; तथा भानि नक्षत्राणि लङ्कायां सम-
पश्चिमगानि कर्तृभूतानि अचलानि – भूमिगतान्यचलवस्तूनि कर्मभूतानि
विलोमगानीव-प्राचीं दिशं गच्छन्तीव पश्यन्ति । लङ्कादिविषुवद्देशेष्वेव
नक्षत्रपञ्जरस्य समपश्चिमगत्वम् । एवं ताराणां मिथ्याज्ञानवशादुत्पन्नां
प्रत्यग्गमनप्रतीतिमङ्गीकृत्य भूमेः प्राग्गतिरभिधीयते ; परमार्थतस्तु
स्थिरैव भूमिरित्यर्थः' इति ॥
;
---
सूर्यदेवयज्वाऽपि ' भचक्रपरिवर्तानां भूमावध्यस्योपदेशकारणमाह-
अनुलोमगतिरिति' इत्यवतार्य परमेश्वरवदेव व्याख्याय ; ' एवं भचक्र -
स्यैव प्रत्यग्गमनं भूमेः प्राग्गतित्वेनाध्यस्यति न तु परमार्थतो भूमे-