2025-01-21 07:48:48 by ambuda-bot
This page has not been fully proofread.
586
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
भ्रूभ्रमणवादस्य '*जैनोक्तस्य च भूपतनस्य भ्रान्तिकल्पि-
भावप्रकाशः
96
इति च श्लोकः । ' युगरविभगणाः ' ' प्राणेनैति कलां भः' इत्यादिरादि-
शब्दार्थः । सिद्धान्तशेखरे श्रीपतिश्च इमामेव कारिकां भूभ्रमणस्थापन-
परतया व्याचकार-
नौस्थोऽनुलोमगमनादचलं यथा न चामन्यते चलति नैवमिलाभ्रमेण ।
लङ्कासमापरगति प्रचलद्भचक्रमाभाति सुस्थिरमपीति वदन्ति केचित् ॥
इति । अत्र अनुलोमगतिर्नोस्थः इत्यादिश्लोकोत्तरार्धे नौस्थः पश्यतीति
पदद्वयानुषङ्गेण अचलानि मानि समपश्चिमगानि पश्यतीति योजनया
नौस्थानाभिषिक्तभूस्थः भचक्रं स्थिरमपिं चलत्वेन जानातीति भावः ॥
*जैनोक्तस्येति — यद्यपि ;
1
भपञ्जरस्य भ्रमणावलेोकादाधारशून्या कुरिति प्रतीतिः ।
खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः ।
(शिरो - गोला भुवनकोश ७)
इत्यतो बौद्धैरपि भूपतनमुक्तमिति ज्ञायते ; तथाऽपि तत्र अनुपपत्ति-
परिहारपूर्वकं जैनैः व्यवस्था कृतेत्यवगम्यते ; यथा--
द्वौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ तावुदयं व्रजेताम् ।
यदब्रुवन्नेवमनम्बराद्याः ॥
(शिरो. गो. भुवन ८ )
इति । अतः बौद्धोक्तस्येत्यनुक्त्वा जैनोक्तस्येत्युक्तिः । श्रीपतिश्च
स्पष्टमेव भूपतनं एतच्छ्रलोकोक्तयुक्त्या जैनसंमतमित्याह सिद्धान्तशेखरे
(टिप्पणे) --
अधः पतन्त्याः स्थितिरस्ति नोर्व्याः नभस्यनन्तेऽत्र वदन्ति जैनाः ।