This page has not been fully proofread.

सरः]
 
त्रिलोकभ्रिमणपक्षदूषणम् विनिगमनाविरहपारहरः
 
585
 
सर्वार्थसिद्धिः
 
तदविशेषाद्भुवोऽपि कल्प्यतामिति चेन्न; '* अपेक्षितस्या *न्यथैव
सिद्धेः । अत्र 'अनुलोमगतिनौस्थः ' इत्यादिषु स्थापितस्य
आनन्ददायिनी
 
इत्यादिवदर्थवादतयाऽन्यपरत्वादिति भावः । अपेक्षितस्येति - - उदया-
स्तमयादेरित्यर्थः । यद्वा उत्तानादिवाक्यनिर्वाहस्येत्यर्थः । निर्वाहस्तूक्त एव ।
अनुलोमगतिर्नोस्थः यद्वज्जन्तुश्चरति भूमध्ये ।
 
नित्यं भ्राम्यति भूमिः नित्यप्रवहेण वायुना नुन्ना ॥
 
इति ज्योतिश्शास्त्रैकदेशिनां मतं ;
 
निराधारा भूमिः नित्यमधः पातिनी यस्मात् ।
 
इति जैनमतं च दूषयितुमनुभाषते ---- अत्रानुलोमगतिरित्यादिना ।
 
भावप्रकाशः
 
ग्रहाणां न दृश्यत एव । यथेोक्तम् -' इदानीं ग्रहाणां पूर्वगतिमनुपलक्षि-
तामपि दृष्टान्तेन दृढीकुर्वन्नाह---
 
यान्तो भचक्रे लघुपूर्वगत्या खेटास्तु तस्यापरशीघ्रगत्या ।
कुलालचक्रभ्रमिवामगत्या यान्तो न कीटा इव भान्ति यान्तः ॥
(शिरो. गोला. मध्य- वसना. ४ )
इति । ' अपेक्षितस्येति - अयनसंक्रमऋतुभेदग्रहणादय इहापेक्षित-
शब्दार्थः । 2* अन्यथैव — ग्रहाणां प्राग्गत्यङ्गीकारेणैवेत्यर्थः ॥
 
3
 
*
 
* स्थापितस्येति --अनेक ग्रहाणां प्राग्गत्यङ्गीकारे गौरवं
एकस्या भुव एव भ्रमणाङ्गीकारे लाघवमित्यस्मिन् पक्षे युक्तिरुत्तरत्र
शङ्कावसरेषु व्यक्तीभविष्यति ।
 
अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोभगं यद्वत् ।
 
अचलानि भानि तद्वत् समपश्चिमगानि लङ्कायाम् ॥