This page has not been fully proofread.

584
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
भ्रान्तैः क्लतं त्रिलोकीभ्रमणमिह
 
सर्वार्थसिद्धिः
 
त्रैलोक्यभ्रमणं स्वीकृतम् ; 'तदुपालभ्यते - भ्रान्तैरिति । यथा

स्वयं भ्राम्यन्तो वालिशाः भुवं भ्राम्यन्तीमभिमन्यन्ते तथेदमिति
भावः । 2 *यदि स्थिरतयैव दृष्टानां ग्रहनक्षत्राणां भ्रमण कल्प्यते
आनन्ददायिना
 
गवानामुत्तानतासम्भवादुत्तानत्वं भ्रमणे लिङ्गमिति भावः । यथा स्वय-
मिति—— उत्ताना ह वै' इत्यादेः 'प्रजापतिरात्मनो वपामुद क्खिदत्
 
-
 
भावप्रकाशः
 
तात्पर्येणेति सूचितम् । एतच्च अनुपदमेव स्फुटीभविष्यति । 'उपा
लभ्यत इति 'उत्ताना ह वै देवगवा' इत्यादौ उत्तानत्वादिप्रतीतिस्तु
भुवो गोलाकारत्वेन स्थितेरिति ; ' भूमेः पिण्डः ' इत्युपक्रम्य -
 
यो यत्र तिष्ठत्यवनीं तलस्थां आत्मानमस्या उपरि स्थितं च ।
स मन्यतेऽतः कुचतुर्थसंस्थाः मिथश्च ते तियेगिवामनन्ति ॥
अधरिशरस्काः कुदलान्तरस्थाः छायामनुष्या इव नीरतीरे ॥
(शिरोमणि. गोला. भुवनको. १९-२० )
इत्यादावुपपादिता । ' युगरविभगणाः' इति लोके अविशेषेण ग्रहाणां
भुवश्च प्राग्गतिकथनेऽपि भुवः प्राग्गतिकथनं मिथ्याज्ञानसिद्धतात्पर्येणे-
त्युक्तिरनुचितेति शङ्कते - 2 * यदि स्थिरतयेत्यादि । अत्र स्थिरत्वं
गत्यभावः। स च नक्षत्राणां निर्व्यापारत्वात् स्वरसत एवोपपन्नः ।
ग्रहाणां तु प्रवाधीनप्रत्यग्गतिमत्त्वेऽपि सा गतिरितराधीनेति उत्तर-
देश संयोगानुकूलो व्यापारोऽन्यनिष्ठः न स्वायत्त इति भावः । प्राग्गतिस्तु