This page has not been fully proofread.

सरः]
 
त्रिलोकीभ्रमणपक्षे तदुक्तयुक्तिः
 
583
 
सर्वार्थसिद्धिः
 
इति । कैश्चित् 'उत्ताना ह वै देवगवा वहन्ति' इत्यादि निर्वहणाय
 
आनन्ददायिनी
 
नित्यं त्रिलोकी भ्रमति श्रुतिवाक्यानुसारतः ।
 
अतो भचक्रं भ्रमति विपरीतं ग्रहान्वितम् ॥
इति गणितैकदेशिमतमनुवदति — कैश्चिदिति । भ्रमणेनोपर्यधोभावे देव-
 
भावप्रकाशः
 
इति चोक्तम् । भानामधरशनैश्वरेत्यादिश्लोकेन भुवः भ्रमणं न घटते ;
अपि तु स्थैर्यमेव सिध्यतीत्यथमंशः उत्तरत्रोपपादयिष्यते । सर्वग्रह-
 
भ्रमणं च -
 
कक्ष्याप्रतिमण्डलगाः भ्रमन्ति सर्वे ग्रहाः स्वचारेण ।
मन्दोच्चादनुलोमं प्रतिलोमं चैव श्रीप्रोच्चात् ॥
 
इत्यत्रोक्तम् ॥
 
भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि ।
 
अर्घानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥
 
इत्यत्र भुवः ग्रहेभ्यः पृथग्ग्रहणेन ग्रहत्वं नस्ति भुव इति सूचितम् ।
ग्रहशब्देन न भुवो ग्रहणम्' पश्चाद्रजन्तोऽतिजवात्' इत्यादि सूर्य -
सिद्धान्तोक्तषडिधगतिमतामेव ग्रहत्वस्य ग्रन्थकृत्संमतेश्च । उदयास्त-
मयानिमित्तमिति श्लोकः 'भूभगणभ्रमणसंस्थान' इत्यादिबृहत्संहिताव्या-
ख्यानावसरे भट्टोत्पलेन भूभ्रमणवादनिरासार्थमुदाहृतः । अत्र भूभगण-
भ्रमणसंस्थानेत्यादिमूलस्य भूमेः भगणस्य च भ्रमणसंस्थानाभिज्ञ इत्य-
व्याख्याय भूमेस्संस्थानाभिज्ञः इति व्याख्यानात् 'युगरविभगणाः '
इत्यादिगीतिकापादतृतीयश्लोके प्राग्गत्या भगणकथनं मिथ्याज्ञानसिद्ध-