This page has not been fully proofread.

582
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
भावप्रकाशः
 
स्तमयसंभवात् इति भूभ्रमणवादखण्डनाय उदयास्तमयनिमित्तमित्यादि-
 
श्लोकः प्रवृत्तः -
 
इति ॥
 
भचक्रं ध्रुवयोर्बद्धं आक्षिप्तं प्रवहानिलैः ।
 
पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥
 
मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ।
 
(सू. सि. भूगोलाध्याये ७५)
 
(सू. सि. भूगोलाध्याये ३२)
 
विभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥
 
जगदण्डखमध्यस्था महाभूतमयी क्षितिः ।
भावाय सर्वसत्वानां वृत्तगोळ इव स्थिता ॥
 
इति ॥
 
(वसिष्ठसिद्धान्ते)
 
वृत्ता चक्रवदचला नभस्यपारे विनिर्मिता धात्रा ।
 
पञ्चमहाभूतमयी तन्मध्ये मेरुरमराणाम् ॥
 
(पौलिशसिद्धान्ते)
 
इति च सूर्यवसिष्ठपौलिशसिद्धान्तवचनान्यवलम्ब्य—
वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः ।
मृज्जलशिखिवायुमयो भूगोलस्सर्वतो वृत्तः ॥
 
इति ॥
 
(आर्यभ. गोल. ६ )
 
भानामधश्शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः ।
 
तेषामधश्च सूमिः मेथीभूता खमध्यस्था ॥
 
(आर्यभ - कालक्रि १५ )