2025-01-21 07:48:36 by ambuda-bot
This page has not been fully proofread.
578
सव्याख्यसवार्थसिद्धिसहिततत्वमुक्ताकलाप
[ जडद्रव्य
तत्वमुक्ताकलापः
ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि
संवर्तवार्ताभावाभावो निषेद्धुं तदुभयविधिवद्वद्याह-
तत्वादशक्यम् । अन्तर्यन्तुश्च तेजस्सहपठिततमो
सर्वार्थसिद्धिः
आलोकाभावस्यागमवैघट्यमाह – ध्वान्तमिति । अर्थो-
पादानमेतत् ; शब्दस्तु 'नासीत्तमो ज्योतिरभृन्न चान्यत् '
इति । कथमस्य प्रकृतविरोधित्वम् ? इत्यत्राह - भावाभावाविति ।
न हि कस्यचिदेकदैकत्र भावाभावविधिश्शक्यते ! तद्वदुभय-
आनन्ददायिनी
प्रसङ्गसंगतिमा(पूर्वसंगत्याऽऽ) ह - आलोकाभावस्येति । मूलस्याय-
मर्थः–मुनिभिः–पौराणिकैः ' नासीत्तमो ज्योतिरभून्न चान्यत्' इत्यत्र
तमस्तेजश्च नासीदिति । संवर्तवार्ता - प्रलयवचनम् । एकस्मिन् काले भावा-
भावविधिवन्निषेधोऽप्यशक्यः । शक्यमिति विभक्तिप्रतिरूपकमव्ययमिति
न विशेष्यनिघ्नतेति केचित् । अपरे तु --' ' निषेद्धुं व्याहतत्वादशक्यम् '
इति भिन्नं वाक्यम् । तत्किमित्यपेक्षायां भावाभावावित्यपरं वाक्यम् ।
अत एव महाभाष्ये पस्पशायां श्वमांसादिभिरपि क्षुदुपहन्तुं शक्यमित्यत्र
कैयटः–उपहन्तुं शक्यं इत्येकं वाक्यम् । तत्किमित्यपेक्षायां क्षुदित्यपरम् ;
तथा च सामान्ये नपुंसकत्वमेकवचनत्वं चेति वदन्ति । वस्तुतस्तु
. (अन्येतु-) —— भावाभावाविति तुमुन्नन्तकर्म । कृदन्तत्वेऽप्यव्ययत्वान्न
षष्ठी । तथा च तुमुन्नन्तार्थ एव प्रधानमिति तत्रैव विधेयाशक्यत्वान्वये
भावाभावनिषेधनमशक्यमिति (वाक्यार्थः) पर्यवस्यति । तुमुनोऽव्ययत्वेन