This page has not been fully proofread.

सरः ]
 
आलेाकाभावे नैल्यभ्रमनियामका दृष्टकल्पनानिरासः
 
577
 
तत्वमुक्ताकलापः
 
साम्यात् नात्रादृष्टं नियन्तृ प्रतिनियतगुणारोप-
 
क्लृप्तेर्गुरुत्वात् ॥ ६१ ॥
 
सर्वार्थसिद्धिः
 
प्रसङ्गिनोऽनुसरणायोगात् । यथा च रज्जौ सर्पाध्यासः तथा
कदाचिदम्बुधाराद्यध्यासोऽपि किं न भवति ? सत्यां च सामग्रयां
कार्यानुत्पत्तिरिति न लौकिकमेतन्न च यौक्तिकम् ; यच्चोक्तम्-
'अदृष्टादिकं चात्र नियामकमव सेयमिति तद्दूषयति — नात्रेति ।
विचित्रादृष्टभेदविषमिते जगति सर्वजन्तुसाधारणस्य दुरुपशम-
तावन्मात्र भ्रम हेतोरदृष्टविशेषस्य कल्पनेऽतिगौरवं स्यादित्यभि-
प्रायेणाह — प्रतिनियतेति ॥ ६१ ॥
 
आनन्ददायिनी
 
--
 
तदनुसारेण कल्प्यस्य निमित्तस्यातिप्रसक्तत्वे अरोपापादनासम्भवात्;
अन्यथा सर्वत्र प्रमेयत्वस्यैव निमित्तत्वकल्पनापत्त्या अवान्तरदोषादि-
कल्पनावैयर्थ्यादिति भावः । तदेवोपपादयति – यथा चेति । सादृश्यस्यो-
भयारोपसाधारणत्वादिति भावः । किञ्चारोपसामग्रयां सत्यामप्यारोपाभावः
किं दृष्टः ? उत कल्प्यः ? इति विकल्प्य आद्यं दूषयति — सत्यां चेति ।
द्वितीयं दूषयति – नच यौक्तिकमिति । व्याप्तयभावादिति भावः । ननु
सत्यां सामग्रयां कार्यनियम इति; सत्यम् ; तत्रादृष्टविरहात्तदारोपो
नेत्याशङ्कते – यच्चोक्तमिति । विचित्रेति-सर्वेषामेकरूपादृष्टसत्त्वे माना-
भावात् (दिति भावः ।) अन्यत्र सर्वत्र तत एव कार्यसम्भवे दृष्टकारण-
विलोपप्रसङ्गश्चेति (भाव) द्रष्टव्यम् ॥ ६१ ॥
 
-
 
SARVARTHA.
 
37