This page has not been fully proofread.

576
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
आरोपे चात्र नैल्यं न भवति नियतं भास्वरान्यत्व-
 
सर्वार्थसिद्धिः
 
वधारणतात्पर्य भेदसिद्धं दूषणान्तरमाह — आरोपे चेति । अयं
भावः - आरोप एवात्र न संभवति ; अभावस्य हि स्वरूपमेव
हि भेदं मन्यसे । ततस्तद् वा कथमारोपः ? एवं च ब्रूपे !
आलोको हि भास्वरः ! तद्विरोधी च तदभावः । कृष्णद्रव्यमपि
भास्वरान्यत्वात्तथैव । अत आलोकविरोधित्वसाधर्म्यात् अकृष्णे
कृष्णधर्माध्यास इति । एवं सति रक्तपीतादीनामपि तथात्वा-
विशेषात् तत्र तदारोपः किं न स्यादिति । अत्र यदुक्तं काणादैः-
' आरोपे सति निमित्तानुसरणं न तु निमित्तमस्तीत्यारोपः '
इति । तदयुक्तम् - आरोपे सतीत्यसिद्धेः । निमित्तस्य चाति-
 
आनन्ददायिनी
 
प्रभादौ व्यभिचारादि (रस्स्यादि ) ति भावः । अनुद्भूतस्पर्शवत्त्वकल्पने
तमस्यपि तद्वाधकाभावात् । ननु भास्वरान्यत्वरूपसादृश्यस्य नीलद्रव्या-
भावसाधारण्येनारोपहेतुत्वात् कथं नियतारोपाभाव इत्यत्राह - अयं भाव
इति । अत्र मूलस्य - आरोपे च -- आरोपपक्षे च अभावे नीलारोपो
नियतं - नित्यं न भवत्येव - आरोप एव न सम्भवतीत्येकोऽर्थः । नियतं-
नियमेन नीलरूपस्यैवारोपो न रक्तरूपस्येति नियमो न सम्भवतीति
द्वितीयः । तदुभयमाह — आरोप एवात्रेत्यादिना । कथमारोप इति--
अभावस्य ग्रहे तस्यैव विशेषदर्शनत्वात् तदग्रहे धर्मिज्ञानाभावान्नारोप
इति भावः । आरोपनियमे तदुक्तं नियामकमाशङ्कते - अत्र यदुक्तमिति ।
तथाच न रक्ताद्यारोप इति भावः । निमित्तस्य चेति - एकत्रारोपे सति
 
--