This page has not been fully proofread.

सरः ] न्यायमतानुवादः अबाधितनैल्योपलम्भः आलोकाभावत्वसाधनायोगः 575
 
सर्वार्थसिद्धिः
 
एव दृष्टान्त इति चेन्न ; त्वत्पक्षे पक्षदृष्टान्तभेदाभावात् ;
अस्मन्मते तु भावातिरिक्ताभावासिद्धेः । आलोकाभावे दिवा-
भीतादिचक्षुर्ग्राह्यैनलैर्व्याभिचाराच्च । दृग्वैषम्यवत् दृश्यवैषम्यं
च व्यवस्थापकं स्यादित्युक्तम् । अतोऽस्मदादिविशेषणेऽप्यनि-
स्तारः । तमोधर्मभूतनैल्यादिदृष्टान्तस्तु तदभावसाधने विरुद्धः ।
आरोपितनैल्यादिदृष्टान्तस्तु शुक्तिरूप्यशशशृङ्गादिवदनादेयः ।
अनारोपितं तु सत्येवालोके चक्षुषा गृह्यते । तथाऽपि भ्रान्ति-
दशायां गृह्यमाणारोपाभावेऽपि चाक्षुपभ्रान्तिविषयत्वादेवायं
हेतुसिद्ध इति चेन्न ; तमसि नैल्यारोपसिद्धिमन्तरेणास्य हेतो-
रनुत्थानात् । भवति हि बाधाद्दृष्टान्तलाभः ! तेन च मिथस्संश्रयः ।
अस्पर्शत्वादिवाधकान्तरं तु निरस्तम् । अत्र नीलमित्येवेत्य-
आनन्ददायिनी
 
पक्षभिन्नस्यैव दृष्टान्तत्वादिति भावः । अस्मन्मत इति । तथा च चाक्षुष
द्रव्यस्य रूपवत्त्वात् तस्यैव तमसोऽन्यस्य वा दृष्टान्तत्वादि (त्यर्थः ) ति
भावः । अ(त) तोऽस्मदादीति — असऱ्या लोके (आलोकाभावेपि) अस्मदा-
दिचक्षुर्ग्राह्यत्वादित्युक्तेरित्युक्तेपी) त्यर्थः । दृष्ट (ष्टि) वैषम्यानुरोधेनेव
दृश्यवैषम्यानुसारेणाऽपि सङ्कोचसम्भवादिति भावः । तमोनैल्यमसदेव
किंचित् ? उत सदेव ? नाद्य इत्याह-- आरोपितेति । तथात्वे अतिप्रसङ्ग
इति भावः । न द्वितीय इत्याह – अनारोपितं त्विति । तथाचासिद्ध्य-
साधारण्ये इति भावः । ननु बाधाभावेऽपि तमः प्रतीतौ विषयस्य रूपस्य
नी(ल)रूपत्वाद्दृष्टान्तत्वसम्भवान्नोक्तदोष इति चेन्न ! तथात्वे प्रत्यक्षस्य
बलवत्तया बाधप्रसङ्गात् । ननु तमो न रूपवत् अस्पर्शत्वादित्यादिना
बाधात् न मिथस्संश्रय इति तत्राह — अस्पर्शत्वादीति । इन्द्रनील-
 
-