This page has not been fully proofread.

574
 
सव्याख्यसर्वार्थसिद्विसहिततत्वमुक्ताकलापे
 
तत्वमुक्ताकलापः
 
[जडद्रव्य
 
नालोकाभावमात्रं तिमिरं अविरतं नीलमि-
त्येव दृष्टेः नैल्यं त्वारोपितं चेन कथमिव न भवेत्
क्वापि कस्यापि बाधः ।
 
सर्वार्थसिद्धिः
 
-
 
ये त्वाहुः - आलोकाभाव एवालोकविरोधित्वलक्षणसमानधर्म-
स्मारितनैल्योपरक्तो नीलं तम इति गृह्यते । ननुपश्लेषरहितशब्द-
वाच्यत्वं तु प्रलयवादिशब्दन्यायेन स्यादिति ; तान् प्रतिवक्ति-
नालोकेति । अबाधितं नीलोपलम्भं हेतुमाह-अविरतमिति ।
आरोपितं नीलरूपत्वं नाभावत्वविरोधीत्यभिप्रायेणाशङ्कते -
नैल्यं त्विति । आरोपस्य कालभेदेन पुरुषभेदेन वा बाधव्याप्ति-
मभिप्रेत्याह — कथमिवेति । अविरतमिति सूचितमेतेन व्यञ्जि-
तम् । ननु तमो न नीलं असत्यालोके चक्षुषा प्रतीयमान-
त्वात् इति बाध इति चेन्न दृष्टन्तासिद्धेः । आलोकाभाव
 
;
 
आनन्ददायिनी
 
आक्षेप सङ्गत्या न्यायमतमनूद्य दूषयतीत्याह-ये त्वाहुरिति । अलोक-
वैधर्म्यलक्षणधर्मस्मारितमित्यर्थः । केचित्तु - (यद्वा) आलोकशब्दः आलोक-
वपर इत्याहुः । नन्वभावत्वे नजुपश्लिष्टपदबोध्यत्वं न स्यादित्यत्राह-
नञपश्लेषेति । प्रलयस्सर्वकार्य (वि) नाशो द्यभावरूपः । अविरतपदतात्पर्य-
माह— अबाधितेति । बाधितत्वे कदाचिन्नीलान्यत्वेनापि प्रती (तेः)त्य
अविरतत्वायोगादिति भावः । तथाचायं प्रयोगः - न तम आलोकाभावः
अबाधितनीलबुद्धिविषयत्वात् सम्मतवदिति । प्रत्यक्षबाधविरहेऽपि यौक्ति-
कबाधेन हेत्वसिद्धिमाशङ्कते - नन्विति । व्याप्यत्वासिद्धिमाह - दृष्टान्तेति । .
 
l