This page has not been fully proofread.

सरः] तस्यश्रौतैद्रव्यत्वप्राकृतत्वे परिशेषेणातिरेकः तस्याविद्यानिदर्शनत्वानिरासः 573
 
सर्वार्थसिद्धिः
 
त्वप्राकृतत्वसिद्धौ रूपवत्वेन वायुपर्यन्तव्यपोहः । कृष्णरूपत्वाच्च
वह्निजलव्यावृत्तिस्सिध्येत् । ' यत्कृष्णं तदन्नस्य' इति श्रुत्यनु-
साराच्च । तदिदं तमः परब्रह्माच्छादकाविद्यानिदर्शनतया विष-
यावारकं कैश्चिदुक्तम् ; तदसत् ;
तमोव्यवहितालोकस्थितनानार्थदर्शनात् ।
दृग्गतेरविरुद्धस्य दृश्यच्छादकता कथम् ? ॥
अतो मर्त्यादिदृष्टीनां दृश्यसंबन्धमात्रतः ।
दर्शनप्रतिघातित्वं स्वभावात्तमसि स्थितम् ॥
 
आनन्ददायिनी
 
1
 
वोऽस्तु! कथं तस्य पार्थिवत्वमित्यत्राह — रूपवत्त्वेनेत्यादिना । वह्नि-
जलव्यावृत्तत्वेऽपि पार्थिवत्वे किं प्रमाणमित्यत्राह — यत्कृष्णमिति ।
प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्तु-
(वस्त्वन्तर) पूर्वकम् अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्न-
प्रदीपप्रभावत् इत्यनुमानेन अज्ञानसाधनं दूषयितुमनुभाषते - तदिदमिति ।
हेतुमाह---तमोव्यवहितेति ननु व्यवधायकस्य कथं नेन्द्रिय (दृष्टि) वृत्ति -
प्रतिबन्धकत्वमित्यत्राह - दृग्गतेरविरुद्धस्येति । आच्छादकत्वे दृग्गति-
विघातप्रसङ्ग इति भावः । ननु मनुष्यादिदृग्गतिप्रति (गतिदि) घातकत्वा-
भावे कथमन्धकारे दृग्गतवस्तुग्रहाभाव इत्यत्राह – अत इति । दृशो
दृश्यसम्बन्धेऽपि चाक्षुषधीप्रतिबन्धकत्वस्ये ( त्वं तस्येत्यर्थः । वस्तुत-
स्तमोऽतिरिक्तचाक्षुषप्रत्यक्षे आलोकस्य सहकारित्वात् तदभावान्न तत्प्र-
त्य(न तत्र प्रत्य)क्षमि(क्षत्वमिति भावः ॥ ६० ॥
 
तमसः पार्थिवत्वम्
 
-