2025-01-21 07:48:26 by ambuda-bot
This page has not been fully proofread.
572
सव्याख्यसवार्थसिद्धिसद्द्तितत्वमुक्ताकलापे
सर्वार्थसिद्धिः
अद्रव्यत्वादिपक्षाणामत्रासंभवसिद्धये ।
[ जडद्रव्य
आद्यमेव तमो ध्वान्तमिति केचिदुपाचरन् ॥
किञ्च तेजस इव तमसोऽपि शरीरत्वाम्नानादालोकमध्ये
तमस्स्सृष्टिवचनादेकस्मिन् काले तमस्तेजःप्रलयपाठाच्चास्य द्रव्य-
आनन्ददायिनी
नीलभानरूपस्मृतिप्रमोष इति प्राभाकराः । द्रव्यान्तरमिति कौमारिलाः ।
प्रधानतत्वमेव तम इति तत्वविदः' इत्युपक्रम्य प्राथमिकमतद्वयमथन-
पूर्वकम् ;-
-
अत्र तत्वविदः प्राहुः स्थूलसूक्ष्मात्मना स्थिता ।
दैवी गुणमयी माया बाह्यन्तरतमो (मयी) मता ॥
इत्युक्तम् ; तत्कथं पार्थिवत्वं भवद्भिरुच्यते ? इत्यत्राह - अद्रव्यत्वादि-
पक्षाणामिति । आदिशब्देनालोकाभाव (पक्ष) परिग्रहः । अद्रव्यत्वादिनि-
रासाय प्राकृतत्वात् प्रकृतित्वोक्तिरित्यर्थः । तत्र हेतुमाह--- किंच तेजस
इति । 'यस्य तमश्शरीरम्' इति शरीरत्वोक्तेः 'तमस्ससर्ज दिवसे '
इत्यादिना भारतादौ आलोकदशायामेव तमस्सृष्टश्श्रवणात् तेजसा
सह तमसोऽपि प्रलयवचनात्त (चने तदभावत्वाभावावगमाच्च द्रव्यत्वं
प्राकृतत्वं च सिद्धमित्यर्थः । ननु ' नासदासीन्नो सदासीत्तदानीम् ' तम
आसीत्तमसा गूढमग्रे प्रकेतम् ' ' यदा तमस्तन्न दिवा न रात्रिः ' ' तमः
परे देवे' आसीदिदं तमोभूतम्' इति श्रुतिस्मृतिवचनानि प्रकृतेस्तमस्त्वं
वदन्तीति चेत्; (न) प्रकृतेः रूपवत्त्वाभावेन अस्मदादिचाक्षुषतमस्त्वा-
संभवात्तस्याः प्रकृतेरतीन्द्रियत्वोक्तेः (क्तेश्च) तत्र तमश्शब्द उपचारा-
च्छक्तयन्तराद्वेति दृश्यमानतमसः प्राकृतत्वमेवेति भावः । ननु तमसो
द्रव्यत्वे तत्वान्तरत्वापत्तिः; क्लृप्तेष्वन्तर्भावे महदादिषु वा (दिष्वेवा) न्तर्भा