This page has not been fully proofread.

सरः] तच्चाक्षुषवैजात्यं तत्सहकारि तथास्वभावः आलोकमध्येतदग्रहोपपत्तिभेदाः 571
 
तत्वमुक्ताकलापः
 
दिवाभीतदृष्ट्यादिनीतेः ॥ ६० ॥
 
सर्वार्थसिद्धिः
 
न्धतमसेsपि पदार्थान् दर्शयति ; तथेहापि स्यात् । तत्र सह-
कार्यन्तरप्रभावादिति चेत्; अत्राप्यालोकाभावस्य सहकारिणः
प्रभावादित्यङ्गीकुरुष्व । यथा च किंचित् बहलालोकग्राह्यं किंचित्
मन्दालोकेनापि ; तथा किंचिदालोकग्राह्यं किंचिन्न तथेति यथा-
दर्शनं नियमः ; दृक्स्वभावाच्च । यथा दिवाभीतादिदृष्टेरालोकनै-
रपेक्ष्यं तथा दृश्यस्वभावादिहापीति किं नेष्यते ? अस्त्वेवम् !
तथाsप्यालोकमध्ये किं नोपलभ्यते ? इति चेत ; आलोकना-
श्यत्वादिति केचित् । उत्सारितत्वादित्यन्ये । मध्यन्दिनोल्काप्रका-
शादिवदभिभवादित्यपरे ।
 
आनन्ददायिनी
 
त्वेन आलोकाभावस्या सहकारित्वं तथाऽपि वाच्यम्; तथा च लाघवानु-
रोधात् तमोग्रहे सह (तत्सह ) कारि भवत्वित्यर्थः । ननु विषयव्यञ्जकालो-
(ञ्जकस्यालो ) कस्यामावे कथं चक्षुषा ग्रहः ? तत्र तस्य सहकारि-
त्वादित्यत आह-यथेति । आलोकस्य सहकारित्वेऽपि विषयभेदेन
वैषम्यदर्शनेन नैकरूप्यं सर्वत्रेति भावः । ननु तथाऽपि सर्वत्र
चाक्षुषज्ञाने आलोकमात्रस्य न व्यभिचार इत्यत्राह — दृक्स्वभावादिति
अस्त्वेवमिति -तम (सा) सो विरोधाभावेन सत्त्वाविरोधादित्यर्थः ।
आलोकेति ---- यथा दीपो वातविनाश्यः तथा अन्धकार अलोकनाश्य
इत्यर्थः । अभिभवादिति – स्वावच्छेदे ना लोकस्त मोज्ञानप्रतिबन्धक-
इत्यर्थः । ननु तत्वरत्नकरो ' आलोकाभावस्तम इति काश्यपीयाः ।