This page has not been fully proofread.

570
 
सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
वत्तत्र चाक्ष्णोः नालोकोऽर्थ्यः समिद्धाञ्जननयन-
सर्वार्थसिद्धिः
 
दृष्टान्तः । यन्नीलं तदालोकसहकृतचक्षुर्ग्राह्यम् । तमश्च न तथा ।
ततचाक्षुपप्रत्ययाभावे नीलत्वाभिमान इत्यत्राह — तत्रचेति ।
आलोकोपलब्धावालोकान्तरं न सहकारि; तथाऽत्र स्यात् ; विप-
यस्य सतस्तत्र सहकारित्वमिति चेत् ; अथापि वस्तुभेदे वैरूप्यं
सिद्धम् । एवं ध्वान्तेऽप्यालोकनैरपेक्ष्यं स्यात् । अलङ्घनीयनिद-
र्शनान्तरमाह —ससिद्धानेति । अञ्जनविशेष सहकृतं हि चक्षुर-
आनन्ददायिनी
 
-
 
स्पर्शं तम इति अस्पर्शत्वासिद्धेोरित्यर्थः । चाक्षुषेति यद्यपि तत्प्रतीति-
रपि चाक्षुषीति न चाक्षुषप्रतीतिसामान्याभावस्संभवति ; विशेषाभावश्चेत्
सर्वदा तमः प्रतीतिप्रसङ्गः ; तथाप्यालोकाभाव आरोपसहकारीति
तमश्चाक्षुपप्रत्यया (चाक्षुषप्रतीत्यतिरिक्तचाक्षुषप्रत्यया) भावे तथा ( तदा) रोप
इति भाव (इतिकेचित् ) इत्याहु: । वस्तुभेद इति — सर्वत्र विषयाति-
रिक्तालाकसापेक्षत्वनियमेऽपि तेजसि वैरूप्यमङ्गीक्रियते ; त (द्व) -
त्पार्थिवत्वेऽपि वैरूप्यमि(प्यमस्त्वि) त्यर्थः । यद्वा - - (केचित्तु - ) वस्तुभेदे
तमसः पार्थिवविशेषत्वानङ्गीकारेऽपि नीलरूपस्यालोका सहकृतचक्षुर्गाह्य-
त्वरूपं वैरूप्यं सिद्धमिति लाघवात् पृथिव्यन्तर्भावोऽस्त्वित्यर्थः(इत्याहुः) ।
यदुक्तं चाक्षुषप्रत्ययाभावेऽपि नीलत्वा (नीलिमास्तित्वा)भिमान इति ;
तदयुक्तम् ; ज्ञानस्य तदभावस्य वा चाक्षुषत्वायोगात् । बाधकाभावे (च)
आरोपकल्पनायोगाच्च । आलोका सहकृतचक्षुर्ग्राह्यत्वं च तमसो न
पार्थिवत्वविरोधीत्याह --अञ्जनविशेषसहकृतमिति । नीलाद्यध्यासहेतु-