This page has not been fully proofread.

568
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
चटुलबहुलताद्यन्वयात्तन्न नैल्यम्
 
सर्वार्थसिद्धिः
 
इति य एवं वदन्ति तान् प्रति उभयसंमतेन नीलत्वेन
पार्थिवत्वं साध्यते ; द्रव्यान्तरकल्पने गौरवात् । अवान्तरविशे-
पश्च न वैजात्यहेतुरित्युक्तम् । प्रभातुल्यत्वपक्षे पित्तवद्दृक्प्रभाप-
सर्पपक्षेऽपि नीलत्वाद्भौमत्वं सिद्धमेव । ये त्वाहुः - ' वियति
विततानां सूक्ष्माणां पृथिव्यवयवानां कृष्णो गुणस्तम:' इति ;
तेषां निराधारनैल्योपलम्भोऽशक्यसाधन इत्यभिप्रायेणाह -
तन्न नैल्यमिति । हेत्वन्तरमाह-- चटुलेति । चटुलत्वबहलत्व-
विरलत्वादिकं हि द्रव्यधर्म एव । नच तदुपलम्भो नास्ति
नीलोपलम्भो वा ! विश्वविरोधात् । नचात्रालोकापसर्पणादिहेतु-
भेदैश्चदुत्वमारोपितम् ! प्रत्यक्षभ्रमेषु गुणमात्राधिष्ठानत्वादृष्टेः ।
आनन्ददायिनी
 
उक्तेष्वन्तर्भावप्रकारमाह — उभयसंमतेनेति । तमः पार्थिवं नीलत्वात्
संमतवदित्यनुमानेऽनुकूलं तर्कमाह - द्रव्यान्तरेति । स्पर्शरहितत्वे सति
रूपवत्त्वं विशेषो भेद (नभेद ) क इत्याह – अवान्तरेति । केचित्तु -
 
----
 
-
 
प्रभातुल्यं द्रव्यं तम इत्याहुः । अन्ये तु पीतंश्शङ्ख इत्यादौ नयनगत-
पित्तद्रव्यस्येव चक्षुषः कृष्णतारस्य विसर्पिप्रभा तम इति वदन्ति ।
तन्मतेऽपि पार्थिवत्वमविरुद्धमित्याह – प्रभा तुल्यत्वेति । निराधारेति-
सूक्ष्मत्वेन पार्थिवावयवानामुपलम्भासंभवात् (गुणस्य) धर्मिभावनियतत्वेन
तदभावान्नैवमित्यर्थः । यदि विततानां पार्थिवानामेव तमस्त्वं तदा
सिद्धान्तविरोधः; आतपादावभानं च कल्प्यमित्यवधेयम् । चटुलत्वं-
क्रियावत्त्वम् । तदुपलम्भश्चटुलत्वाद्युपलम्भः । प्रत्यक्षभ्रमेष्विति