This page has not been fully proofread.

सरः ] अवान्तरविशेषान्नात्तज्जातीयता हेमादिपदव्युत्पत्तिविरोधः तमोतिरेकवादः 567
 
तत्वमुक्ताकलापः
 
नैल्याड्रौमं तमिस्रं
 
सर्वार्थसिद्धिः
 
न च हेमादिशब्दानां युक्तं दृष्टप्रमाणतः ।
अलोकव्यवहारार्हे कुत्रचिद्वृत्तिकल्पनम् ॥ ५९ ॥
हेमादेस्तैजसत्वोक्तितात्पर्यम्.
 
तेजोऽनन्तरे तोये विप्रतिपन्नार्थाभावात् तदुल्लवनेन तमसः
पृथिव्यामन्तर्भावमाह — नैल्यादिति ॥
 
तमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धद्रव्यवैधर्म्यात् नवभ्यो भेत्तुमर्हति ॥
आनन्ददायिनी
 
सर्वव्यवहारोच्छेद इत्यर्थः । तैजसत्वे बाधकान्तरमाह - नच हेमादि-
शब्दानामिति । दृष्टप्रमाणत इति ल्यब्लोपे पञ्चमी । दृष्टं -- प्रत्यक्षं
तेन सिद्धमुपष्टम्भकं परित्यज्य लौकिकव्यवहारानर्हे वस्तुनि शक्तिकल्पनं
विरुद्धमित्यर्थः ॥ ५९ ॥
 
हेमादेस्तैजसत्वातितात्पर्यम्
 
अवसरसंगतिमाह ——तेजोऽनन्तरमिति । तमसः क्रियावत्त्वात्
परत्वापरत्वविभागादिगुणवत्त्वाद्रव्यत्वे सिद्धे स्पर्शासमानाधिकरणनलि-
रूपात्मकवैधर्म्यात् पृथिव्यादिनवद्रव्येभ्यो भेद इति मीमांसका आहुः ।
तत्र तदभिमतं पृथिव्यादिभ्यो भदं प्रतिक्षेप्तुमनुभाषते - तमः खल्विति ।