This page has not been fully proofread.

566
 
सव्याख्यसवार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
दितर यो स्तन्त्र सौकर्यसिद्ध्यै ॥ ५९ ॥
 
सर्वार्थसिद्धिः
 
पाकजद्रवत्वेन पार्थिवत्वसाधने तु सर्पिराद्यस्ति । अलुप्तद्रवत्वं
च हेमादेस्तदुपष्टम्भकपार्थिवांशेऽप्यस्ति; अन्यथा तत्र तदानीं
काठिन्यानुवृत्तिप्रसङ्गात् । अतः पक्षविपक्षमात्रवृत्तित्वाद्विरुद्धता ।
अवान्तरविशेषाच्च नातज्जातीयता भवेत् ।
अतिप्रसङ्गसाम्राज्यात् अशेषापह्नवेन वा ॥
आनन्ददायिनी
 

 
पाक्नद्रवत्वेति । नैमित्तिकद्रवत्वेन पार्थिवत्वं साध्यते । नन्वनुच्छिद्य-
मानद्रवत्वाधिकरणत्वादपार्थिवत्वमिति चेत् ; तत्राह ---- अलुप्तेति । उपष्ट-
म्भके पृथिव्यंशे विपक्षे पक्षे स्वर्णे च तव मते वृत्तेर्विरुद्धत्वमपीत्याह-
अत इति । अयं भावः – अनुच्छिद्यमानद्रवत्वं चास्यासिद्धम् सुवर्ण-
भस्मादिदर्शनात् । अनुच्छिद्यमानद्रवत्वेऽपि पर्थिवत्वे न किञ्चिद्वाधकम् ।
स्वेच्छाकल्पितभेदमात्रादपार्थिवत्वे द्रवत्वात्तैजसत्वमपि न स्यात् । यदि
तेजो विशेषस्य द्रवत्वं कल्प्यते तदा लाघवादष्टगुणत्वनैमित्तिकद्रवत्व-
पीतरूपाद्यनुरोधात् पार्थिवविशेषस्यानुच्छिद्यमान द्रवत्वामभ्युपगन्तव्यम् ।
ननु पृथिवीत्वेन संप्रतिपन्नजत्वादिविलक्षणानुच्छिद्यमानद्रवत्वरूपधर्माधि-
करणत्वात्पृथिवीभेद इत्यत्राह — अवान्तरेति । गुरुत्वादिभिः पृथिवीत्वे
सिद्धे तद्विशेषत्वादुक्तधर्मस्य ततोऽतज्जातीयता पृथिव्यतिरिक्तजातीयता
न भवेत्--न साधयितुं शक्येत्यर्थः । तत्र हेतुमाह — अतिप्रसङ्गेति ।
सर्पिर्जत्वादावप्येवं प्रसङ्गात् सर्वस्यापि किञ्चिद्विशेषत्वात् सर्वस्य सर्व-
बहिर्भोवे सामान्यविशेषभावो न स्यादिति न निर्विशेषं सामान्यमिति