This page has not been fully proofread.

सरः] तेजोमात्रत्वायोगः शास्त्रविरोधः तैजसत्वोक्तिभावः तथात्वसाधनायोगश्च 565
 
तत्वमुक्ताकलापः
 
हाटकाद्याः । तादृक्त्वेऽपि स्फुरत्ताद्यनितरसुलभं
किञ्चिदन्वीक्ष्य तज्ज्ञैः व्याख्यातं तैजसत्वं विधित-
सर्वार्थसिद्धिः
 
मित्यत्राह—तादृक्तेऽपीति । स्फुरत्तादि - तेजस्समानं वर्णविशेषं
स्वतश्शुद्धत्वं चेत्यर्थः । तज्ज्ञैः—तथाभूतवेदिभिः । व्याख्यातं-
विशेषतः प्रकथितम् । किमर्थमित्यत्र तैजससमाख्यातेषु विधि-
निषेधसाधारण्यसौकर्यार्थमित्याह — विधीति । ननु सर्पिर्जतुमधू-
च्छिष्टानां पार्थिवानामत्यन्तावलुप्तद्रवत्वं दृष्टम् । न तथा हेमादौ !
ततस्तेषामपार्थिवत्वम् ? मैवम् ; एवमपि तोयान्यत्वस्य दुस्सा-
धत्वात् । द्रवत्वविशेषात्तैजसत्वसाधने च न कश्चिदृष्टान्तः ।
आनन्ददायिनी
 
:
 
धर्मशास्त्रव्यवहारो न स्यादित्यर्थः । तथात्वे इति - पार्थिवत्वे इत्यर्थः ।
विधिनिषेधेति —— तैजसं शोधकैश्शुद्धम्' 'आयसात्तैजसं शस्तम् '
'भुञ्जीत तैजसे पात्रे एक एव श्रियं लभेत् ' ' तैजसं शुध्यते नित्यम्' इति
विधिः । 'न हरेत्तैजसं विद्वान् ' ' तैजसं न यते (गृहे)र्ग्राह्यम् ' ' न यति-
स्तैजसे प्रात्रे' इत्यादिनिषेधः ! ननु स्वर्णं न पार्थिवं अत्यन्तानल-
संयोगे सत्यप्यनुच्छिद्यमानद्रवत्वाधिकरणत्वात् व्यतिरेकेण सर्पिर्जत्वादि-
वत् इत्यनुमानात् पार्थिवत्वं बाधितमित्याशङ्कते - नन्विति । सुवर्णं
नाप्यं नैमित्तिकद्रवत्वाधिकरणत्वात् जतुवत् इति जलभेदे रूपवतः परि-
शेषात्तैजसत्वमिति चेत् ; तत्राह - द्रवत्वविशेषादिति । ननु द्रवत्व-
विशेषाज्जलभेदमात्रं साध्यते ; परिशेषात्तैजसत्वं सिद्धमिति चेत्; तत्राह -