2025-01-21 07:48:13 by ambuda-bot
This page has not been fully proofread.
564
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
धिकम् । तच्च स्वतः पृथिव्या एव । 'काठिन्यवान् यो विभर्ति '
इत्यादिदर्शनात् । गुरुत्वं च तेषुतेषु भूयिष्ठम् । तेजोमात्रे तु
न तत्प्रसङ्गः । जले तु सदप्येतन्नैवं क्वचिदतिशयितम् ।
नचाप्यत्वं तेषामिच्छसि । तदिह पञ्चीकृतारब्धव्यष्टिप्रपञ्चे हेमा-
दिषु पार्थिवाशः प्रभृत इति निश्चीयते । 'कथमन्यथा निष्के तु
सत्यवचनम् ' इत्यादि निरूह्येत ? तथात्वे तैजसत्वस्मरणं कथ
आनन्ददायिनी
ननु काठिन्यं करकादौ व्यभिचारीति तत्राह — तच्चेति । करकादा-
वौपाधिकमिति स्वाभाविकं काठिन्यं हेतुरित्यर्थः । पृथिव्याः स्वाभा
विकतद्वत्त्वे वैष्णववचनं प्रमाणयति – ' काठिन्यवान् यो बिभर्ति ' इति
कठिन पृथिवीशरीरकत्वेन भगवतः काठिन्यवत्त्वमिति भावः । किञ्च
सुवर्णादि तैजसं न गुरुत्वाधिकरणत्वात् यत्तैजसं न तद्गुरुत्वाधिकरणमिति
परिशेषात्पार्थिवत्वमित्याह - गुरुत्वं च तेष्विति । ननु परिशेषात्कथं पार्थि-
वत्वम् ? जलस्यापि गुरुत्वात्; इत्याशङ्कय समानपरिमाणानां (जलानां
न) तारतम्यवद्गुरुत्वाश्रयत्वमित्येवम्भूतगुरुत्वं पृथिव्या एव ;
समानपरिमाणजलान्तरन्यूनाधिक गुरुत्वाधिकरणं न भवति ; यथा तुल्य-
परिमाणजलद्वयमिति । किञ्च स्वर्णस्याप्यत्वं तव सिद्धान्तविरुद्ध (त्व-
त्वमपसिद्धान्तावह)मित्याह - न चाप्यत्वमिति । ननु सिद्धान्ते हेमा-
दस्तजोंऽशसंवलनमङ्गीक्रियते एवञ्च कथं तैजसत्वनिषेधः ? इत्य-
त्राह--तदिह पञ्चीकृतेति - यद्यपि तेजोऽशोऽपि विद्यत एव ; तथाऽपि
'घटादिभ्योऽभिमतपार्थित्वेभ्यो न वैलक्षण्यमित्यर्थः । कथमन्यथेति
सर्वात्मना तैजसत्वे प्रभादाविव निष्कादिव्यवहारप्रयोजकगुरुत्वाभावात्
' निष्के तु सत्यवचनं वाच्यं नापह्नवः कार्योऽधिकदोषात्; इत्यादि-
;