This page has not been fully proofread.

सरः] प्रत्यभिज्ञैोपपत्तिः तस्याः स्थैर्यसाधनत्वं हेमतैजसत्वे भ्रमविशेषानुपपतिः 563
 
तत्वमुक्ताकलापः
 
वर्णानां तादृशत्वादतिकठिनतया गौरवस्यापि
भूम्ना धात्रीभागैः प्रभूतैः स्फुटमिह घटिता धातवो
 
सर्वार्थसिद्धिः
 
यत्तु हेमादेस्तैजसत्वमाहुः– 'त्रपुसीसलोहरजतसुवर्णानां
तैजसानां अग्निसंयोगाद्द्वत्वमहिस्सामान्यम्' इति ; तत् प्रागेव
पाञ्चभौतिकत्वसाधनात्प्रत्युक्तम् । विशेषतश्च परोक्तेर्भङ्गाय ब्रूमः-
वर्णानामिति । हेमरूप्यादिवर्णाः पार्थिवत्वाभिमताभ्रकशुक्त्या-
दिसमा दृश्यन्ते । अन्यथा कथं तत्तमः ? काठिन्यं च तेष्व-
 
आनन्ददायिनी
 
प्रसङ्गसङ्गतिमाह--यत्त्विति । गौतमसंमतिमाह - पुसीसेत्यादि ।
अद्भिस्सामान्यं -अप्सु सामान्यं स्वाभाविकमित्यर्थः । नैयायिकैरपि
हेमादेः तेजस्संसृष्टत्वमात्रसाधनं सिद्धसाधनग्रस्तमित्याह – तत्प्रागेवेति ।
नन्वेवमपि वह्नयादेस्तैजसत्वं यादृशं तादृशं साध्यत इत्याह---विशेषत
इति । शुक्तयादिसमा इति — शुक्तयादिवर्णसमा इत्यर्थः । तथाच
हेमादिवृत्तिपार्थिवं जलवृत्तित्वरहितजातिविशेषेण पार्थिवरूपसजातीय-
रूपवत्त्वात् अभ्रकादिवदित्यनुमानात् पार्थिवत्वमित्यर्थः । अभ्रकं स्वर्ण-
वर्णः पार्थिवविशेषः । ननु प्रतीयमानो वर्ण:शुक्तयादिसजातीयो न
भवति हेत्वसिद्धेरित्याह-- अन्यथेति । तत्समत्वाभावे अभ्रकशुक्तयादौ.
सुवर्णरजतादिभ्रमः सादृश्यनिमित्तो न स्यादित्यर्थः । काठिन्याच्च
हेमादि पार्थिवमित्याह — काठिन्यं चेति । अभ्रकशुक्तचाद्यपेक्षयेत्यर्थः ।
 
1
 
36*