2025-01-21 07:48:07 by ambuda-bot
This page has not been fully proofread.
562
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः
दीपप्रतीतिः । साम्यादेस्स्यात्तु तद्धीः प्रवहणभिदुरा-
स्सप्रभास्तत्प्रदीपाः निर्वाधा भास्करादौ प्रथयति
नियतं प्रत्यभिज्ञास्थिरत्वम् ॥ ५८ ॥
सर्वार्थसिद्धिः
यादिक्षणे पूर्वपूर्वदीपनाशो न स्यात् ; अनेकघटाद्युत्पत्तिनयाद्युग-
पदनेकदीपोपलब्धिस्स्यात् ; न चैवमस्ति ! निगमयति-साम्या-
देरिति । श्रभया सहोत्पत्तिपक्षेऽप्येवं दीपादेराशुतरविनाशित्वं
सिद्धम् । यत्र तु सामग्रयनुवृत्त्यादिहेतुविरहः तत्र स्थिरत्वप्र-
सङ्गो न दोष इत्यभिप्रायेणाह – निर्वाधेति ॥ ५८ ॥
स्तिरास्थिरतेजो विभागः.
आनन्ददायिनी
अनुमानान्तरव्याप्तिमित्यर्थः । पूर्वोत्पन्नदीपो द्वितीयादिकाले नष्टः उत्पन्नत्वे
सति देशान्तरासत्त्वे सति योग्यत्वे सति द्वितीयादिप्रतीतिसमयेऽप्रती-
यमानत्वात् यद्देशन्तरासत्त्वे सति योग्यत्वे सति द्वितीयादिकाले न
प्रतयिते तत् तत्काले नष्टं तेजः प्रतीतिकाले नष्टं यथा तमः इ (त्यनुमा-
नान्तरं द्रष्टव्यम् ) ति प्रयोगो द्रष्टव्यः । साम्यादेरित्यादिमूलस्य ; तद्धी:-
तदेवेति प्रत्यभिज्ञा साम्यात् — अत्यन्तसादृश्यात् स्यात् । तस्मात्-
उक्तहेतोः सप्रभाः प्रदीपाः प्रवहणाभिदुराः प्रवाहवत् प्रतिक्षणभिन्ना
इत्यर्थः ॥ ५८ ॥
स्थिरास्थिरतेजोविभागः