2025-01-21 07:48:07 by ambuda-bot
This page has not been fully proofread.
570व्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्तकलापे
तत्वमुक्ताकलापः
[ जडद्रव्य
प्राच्ये स्नेहादिनाशे चरम इव दृढोऽनन्तरं दीप-
सर्वार्थसिद्धिः
इति । पक्षान्तरेषु तु प्रत्यभिज्ञा दुबधेत्यत्राह – प्राच्ये इति ।
दाह्यविनाशानन्तरं वह्निनाश इति चरमदीपादिषु दृष्टम् । इष्टं
च सर्वेषाम् । प्रतिक्षणं च दीपदशादिप्रक्षयो दीपादिषु प्रत्यक्षः ।
प्रयोगश्च – प्राच्यस्नेहदशादिनाशः स्वानन्तरभाविस्वजनकदी-
पनाशवान् दीपारम्भकस्नेह । दिनाशत्वात् अन्त्यवत् इति ।
आनन्ददायिनि
प्रत्यक्षेणेत्यर्थः । पक्षान्तरे इति -- अवयवविशरणानङ्गीकारात् उत्पाद-
( उत्पन्न ) विनाशप्रत्यक्षस्य प्रत्यभिज्ञातोऽधिकत्वाभावात् विनाशित्वं न
साधयतीत्यर्थः । दाह्यविनाशानन्तरमिति — दाह्यभूतदशाविनाशानन्तरं
वह्नेर्दीपस्य विनाश इत्यर्थः । तथाचेदृशविशेषदर्शनबलाज्जात्यादि-
विषयतयाऽन्यथासिद्धा प्रत्यभिज्ञा न विरोधिनीत्यर्थः । दीपदशादी-
त्यादिपदेन तैलादिसंग्रहः । अनुमानतोऽपि विनाशस्सिध्यतीत्याह-
प्रयोगश्चेति । दिङ्मोहादिवत् प्रत्यभिज्ञा न बाधिकेति भावः ।
अन्त्यस्नेहादिनाशस्य सपक्षत्वात्तद्वारणाय - प्राच्य इति पक्षविशेष-
णम् । स्वानन्तरभावीति सिद्धसाधनवारणाय । स्वानन्तरभावित्वं
च स्वोत्पत्त्यव्यवहितक्षणभावित्वम् । स्वजनकेति वर्त्यग्निसंयोग-
(दीपान्तर) नाशमादायार्थान्तरवारणाय दीपारम्भकेति । अदृष्टादि-
नाशे व्यभिचारवारणाय स्नेहेति । आदिशब्देन वर्तिनाशसंग्रहः ।
अन्त्यवदिति–अन्त्यस्नेहादिनाशवदित्यर्थः । दीप (भेदे नाशे) प्रत्यक्ष-