This page has not been fully proofread.

568
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
प्रभायाम् । वस्तुन्यस्ते विक (ल्पे ) ल्पैः स्फुटविघट-
नयोर्वक्तुराप्तस्य वाचोस्तात्पर्य तर्कमानानुगुण-
मधिगुणैश्चिन्त्यमन्ते वसद्भिः ॥५७॥
 
सर्वार्थसिद्धिः
 
प्रभातद्वतोराश्रयाश्रयित्वादिभाषणं तु परसंमत्यैव तन्मतनिदर्श-
नम् । प्रभा हि प्रदीपादिना सह जनिध्वंसिनीति केचित् ।
तथा हि—सांख्या इन्द्रियवृत्तिनिदर्शनतया आहुः —
दीपप्रभा यथा तस्मिन् विनश्यति विनश्यति ।
 
तथा बहिर्गताऽप्येषा मूलच्छेदाद्विनश्यति ॥
 
इति । ननु विरुद्धभाषणादुभयं त्यक्ता सौगत (गती) गतिरिह संग्राह्ये-
त्यत्राह - वस्तुनीति । न तावदिह सिद्धे वस्तुनि विकल्पः । न च
वाक्ययोरैकार्थ्यं क्लिष्टगत्या कल्प्यं; विरोधस्फौट्यात् । आप्त-
 
आनन्ददायिनी
 
दापनिदर्शनं भाष्यस्थंवि रुद्धयेतेत्यत्राह -- प्रभातद्वतोरिति । यद्यप्ययमपि
ग्रन्थो भाष्यस्थः सप्रभोत्पत्तिग्रन्थतुल्य इति न विरोधोऽत्र परिहार्यः ;
परपक्षानुसारेण परिहारस्तु सप्रभग्रन्थेऽपि समः ; तथाऽपि अयं ग्रन्थो
निदर्शनार्थो यथावत्स्वीकार्योऽन्यथा सजातीयधर्मधर्मिभावो न सिद्धये-
दिति यथाश्रुतार्थमभिप्रेत्य समाहितमिति ध्येयम् । केचिदित्युक्तानां
ग्रन्थमुदाहरति--- दीपप्रभेति । सौगतगतिः — क्षणिकपुञ्जद्व्यपक्षः
यद्यप्यस्मिन् (सहजनिप्रध्वंस) पक्षे बहुलीभावपरा (वप्रतिनिविष्ट) वृत्त्यादि-
गतिमत्त्वं न सम्भवति ; तस्य कथंचिन्निर्वाहे सप्रभपक्ष एव श्रेयान्
 
I