2025-01-21 07:48:03 by ambuda-bot
This page has not been fully proofread.
सरः] प्रभातॆजस्त्वसाधकहैतुदोषोद्धारः प्रभाप्रतिहतिपरपभाष्यस्य परक्षानुकूलता 567
तत्वमुक्ताकलापः
यदुक्तं तेन स्रोतस्समाधिं परमतनयतः प्राहुरेके
सर्वार्थसिद्धिः
पलम्भश्चाभाष्यत । प्रतिबिम्बनिरूपणे च नयनरश्मीनां दपणे
प्रतिहतिरुक्ता ; तदेतत् प्रभाप्रभावतां सहोत्पत्तिनाशपक्षे नोप-
पद्यते । दृश्यते च रत्नप्रभादेरपि प्रतिघातकसन्निधौ संकोचः
तदपगमे विकासश्च । अतः पाञ्चभौतिकस्य रत्नादेः पार्थिवाद्यं-
शेन दृढावस्थितस्यापि तेजोऽशेन गन्धादिन्यायवता विशरण-
प्रसरणादिकं युज्यते । आतपवारणादिवृत्तान्तश्च वर्षवारणादि-
न्यायात् किरणगतितत्प्रतिघातावनुमापयति । निवृत्ते चातपे
क्षितिजलयोरौष्ण्योपलम्भात् तेजोऽशविशरणसंक्रमणे गम्येते ।
आनन्ददायिनी
--
तीत्येके । आक्षेपसङ्गतिरित्येके । प्रसङ्गसङ्गतिरित्यपरे । तदेतदिति--
दीपस्य प्रतिक्षणविनाशात् तेन सह प्रभाया अपि नाशात् सप्रभस्यो-
त्पत्तिपक्षे बहुलीभावपरावृत्त्योरसम्भवादित्यर्थः । स्थिर(दृढ)तररत्नादिस्थले
अवयवविशरणाभावात् प्रभा न स्था( न स्यात् तत्र विशीर्णावयवासम्भ-
वा) दित्यत्राह – भौतिकस्येति । यथा स्थिरतरगन्धद्रव्यस्य सर्वत्र
गन्धोपलम्भेनावयवविशरणं; तथाऽत्रापि विशीर्णतेत्यर्थः किरणगतीति-
आतपादिगतीत्यर्थः । सहोत्पन्नत्वपक्षे युगपदेव तावद्देशव्याप्यु ( व्यापि-
तयो)त्पत्तिमतो गतिमत्त्वाभावात् गतिप्रतिबन्धकत्वलक्षणातपवारणादि-
व्यपदेशो न स्यादिति भावः । निवृत्ते चेति — सहोत्पत्तिविनाशपक्षे
विशीर्णतेजोऽवयवसंक्रमणाभावादौष्ण्योपलम्भानुपपत्तिरिति भावः । विशी-
र्णपक्षे आश्रयाश्रयिभावाभावात् सजातीयस्य धर्मधर्मिभावे प्रभाश्रय-