2025-01-21 07:47:56 by ambuda-bot
This page has not been fully proofread.
566
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
भाष्ये भास्वत्प्रभादौ प्रतिहतिबहुलीभावपूर्व
सर्वार्थसिद्धिः
न्तरवैषम्यव्यक्तयर्थः। तिमिरहरत्वं चात्र भास्वररूपविशिष्टतया ;
न तेजस्त्वमात्रेण, अतो न साध्याविशेषशङ्का । एवं नीरसत्वे
सति रूपवत्त्वादित्यपि हेतुः ॥ ५६ ॥
प्रभायाः प्रभावदवयवातिरेकतेजस्त्वे.
अत्र ग्रन्थान्तरसिद्धमतान्तरमाह - भाष्ये इति । करतलेना-
हिमकररश्मीनां गतिप्रतिहतिः तथै ( तयै) व तत्र बहलतया स्फुटो-
आनन्ददायिनी
तिमिरहरत्वात् । तज्ज्ञाने च सिद्धसाधनं तदज्ञाने च साध्याविशेष
इत्यत्राह—तिमिरहरत्वमिति । तैजसत्वसाधकमनुमानान्तरमप्याह-
नीरसत्व इति । प्रभा तेजः नीरसत्वे सति रूपवत्त्वात् दीपवदिति
प्रयोगः । रूपादौ जलादौ च व्यभिचारवारणाय विशेषणविशेष्ये ॥५६॥
प्रभायाः प्रभावदवयवातिरेकतेजस्त्वे.
ननु प्रथमसूत्रभाष्ये क्वचित् ' प्रभाप्रभावव्यगुणभूता' इत्या-
रभ्य ' अतस्सप्रभाका एव दीपा भवितुमर्हन्ति' इति विशीर्णपक्ष-
निराकरणं दृश्यते । क्वचित् करतले रश्मीनां गतिप्रतिहतिः तथै(तयै) व
तत्र स्फुटोपलम्भश्च । तथा च क्वचिन्नयनरश्मीनां दर्पणे प्रतिहतानां
परावृत्तिश्च । तेन विशीर्णानामवयवानामेव प्रभात्वमिति गम्यते। तथा च
भाष्यग्रन्थविरोधद्वयं परिहरन् स्वोक्तस्यैतद्भाष्यविरोधं परिहरति — अत्रे -