2025-01-21 07:47:57 by ambuda-bot
This page has not been fully proofread.
सरः] प्रभायाऐक्यवाधकपरिहारः, तस्याः विशीर्णदीपावयवत्वनिरासः, तेजस्त्वंच 565
तत्वमुक्ताकलापः
च स्यात् तेजस्तत्सप्रभाकं तिमिरहरतया साऽपि
तेजोविशेषः ॥ ५६ ॥
सर्वार्थसिद्धिः
--
प्रत्यभिज्ञाविषयप्रधानोदाहरणतया प्रसिद्धेषु स्थिरतरेषु रत्नादिषु
प्रतिक्षणविनाशोऽवयवविशरणं च न कल्पयितुं शक्यम् । अतस्तेषु
त्वदुक्तप्रकारेण प्रभोत्पत्तिकल्पनायोगान्निष्प्रभत्वप्रसङ्ग इत्यर्थः ।
परिशेषतः स्वाभिमतमाह — तेज इति । उक्तानुपपत्त्या दीपा -
दितेजः प्रभाविशिष्टमेवोत्पद्यत इत्यर्थः । ननु प्रभाद्रव्यं न
तत्वपङ्कौ गण्यते ; तद्वहिर्भावश्चापसिद्धान्तः; अन्तर्भाविश्व न
वायुपर्यन्तेषु रूपवत्त्वात् । न तोयपृथिव्योः; रसगन्धादिरहि-
तत्वात् । न तेजसि ; तद्धर्मतयाऽभ्युपगमात् । अतो विशीर्ण-
तेजोऽतिरिक्ता प्रभा नास्तीत्यत्राह — तिमिरहरतयेति । तिमि -
रहरत्वं तेजस्त्वमात्रे हेतुः । विशेषशब्दस्तु प्रतीतिसिद्धावा-
आनन्ददायिनी
इति शास्त्रम् । नन्विति—अतिरिक्तत्वानुपपत्तौ उ (त्वमनभ्युपेत्यो) कान्त-
र्भावस्य वक्तव्यत्वे प्रकारान्तरेणान्तर्भावस्य वक्तुमशक्यत्वा (र्भावस्यानुमत-
त्वा)दिति भावः। अवान्तरवैषम्यं – प्रभात्वम् । ननु प्रभा तेजो भवितु-
मर्हति तिमिरहरत्वात् दपिवदित्यत्र साध्याविशेष इत्यत्राह - तिमिर-
हरत्वमिति । भास्वररूपविशिष्टतयेति — प्रकृत्यादित्वात् स्वार्थे तृतीया ।
तथाच भास्वररूपावशिष्टत्वात्तेजस्त्वमित्यर्थः । यद्वा तिमिरहरत्वात्तैजस-
मित्यत्र तैजसत्वाज्ञाने तिमिरहरत्वज्ञानं न संभवति तेजस्त्वेनैव
-