2025-01-21 07:47:56 by ambuda-bot
This page has not been fully proofread.
564 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
बहुलविरलता (द्य ) तत्र दृष्टानुसारात् सा दीपांशा
विशीर्णा इति यदि बहुधा कल्पनागौरवादिः ।
रत्नादीनां स्थिराणां विशरणविहतेर्निष्प्रभत्वादि
सर्वार्थासिद्धिः
र्बहलत्वविरलत्वोष्णत्वानुष्णत्वाद्युपलम्भस्तत्तद्वस्त्वन्तरेष्विव नै-
क्यबाधक इत्यभिप्रायेणाह - चहलेति । अन्यथा स्थूलमूलत्वादिना
दीपादिष्वपि नैक्यं सिध्येदिति भावः । अवयवविशरणवाद मनूद्य
प्रतिवक्ति - सेति । विशरणक्रिया तत्स्वभावानां वेगवतां तेजोऽ-
वयवानामनुपशान्तवेगानामेव संभूय किञ्चिदुद्गमनेन दीपाद्यवय-
व्यारम्भणं घनीभूतानामनन्तरक्षणे विशरणं ऊर्ध्वगमनशीलानां
च तेषां तत्तदंशतश्च तिर्यगूर्ध्वमधश्च प्रसरणं तादृशप्रसरण हेतुवै-
चित्र्यं बहुलविरलत्वादिसिद्धयै केषां चिद्वेगातिशयः इत्याद्यनुप-
लब्धविविधार्थकल्पनागौरखं प्रसज्य ( ज्येत ) ते । आदिशब्देन सर्व-
लोकापलम्भशास्त्रविरोधसंग्रहः । बाधकान्तरमाह - रत्नादीनामिति ।
आनन्ददायिनी
तदभावयोरिवाविरोधान्नैकत्वबाधकतेति भावः । यद्यवच्छेदभेदेन विरोध-
परिहारो न स्यात् ; तदा बाधकमाह – अन्यथेति । विशरणं-विशी-
र्णता । गौरवमुपपादयति — विशरणक्रियेत्यादिना । बहलाविरलत्वादीति-
दीपसामप्रिये बहलत्वं दूरे विरलता । तत्सिद्धिश्च सर्वावयवानां तुल्य-
वेगत्वे न स्यादित्यर्थः ।
प्रभा भासयते (चार्थान् ) सर्वान् यथैका दीपसंश्रिता ।