This page has not been fully proofread.

562
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
प्राणापानाख्यभस्त्रारभसविसृमरः प्राप्य वैश्वा-
नराख्यां मध्येदेहं हुताशो वसति जलनिधावौर्व-
वत्सर्वभक्षः । तत्तद्विद्यासु वेद्यं त्व (द्यस्त्व) न इव हि
 
सर्वार्थसिद्धिः
 
वायोरनन्तरं वह्निनिरूपणे प्राप्ते प्राणसंगत्या वैश्वानरं ताव-
च्छिक्षयति- प्राणेति । ' तस्य मध्ये महानग्निः' इत्यादिकमिहा-
नुसंधेयम् । वारिनिर्वाप्यत्वनिवृत्त्यै वाडवनिदर्शनम् । प्राणवैश्वा-
नरविचारस्य प्रधानशास्त्रार्थोपयोगमभिप्रेत्याह- तत्तदिति । अनः-
प्राणः । 'अथ यदतः परो ज्योतिर्दीप्यते' इत्यारभ्य ' इदं वाव तत्
यदिदमस्मिन्नन्तः पुरुषे ज्योतिः' इत्याद्यामनन्ति छन्दोगाः । प्रस
ङ्गात् नास्तिकयोगिजननिरासाय द्वितीयसरवक्तव्यमुपक्षिपति-
 
आनन्ददायिनी
 
-
 
वैश्वानरनिरूपणे संगतिमाह — वायोरनन्तरमिति । प्राणविद्यायां
प्राणस्येव वैश्वानरविद्यायां वैश्वानरस्य वेद्यत्वादिति भावः । प्रमाणं
दर्शयति—तस्य मध्ये इति । हृदयमध्ये इत्यर्थः । काकदन्तपरीक्षा-
वैषम्यं दर्शयति — प्राणवैश्वानरेति । तदेव शास्त्रमुदाहरति-- अथ
यदत इति । वैश्वानरविद्यायामामनन्तीत्यर्थः । नन्वात्मनः प्राणवैश्वा-
नराभ्यां भेदसाधनमप्रस्तुतमित्याशङ्कयाह — प्रसङ्गादिति । मूलस्य
प्राणापानाख्यो यो भस्त्रायाः — चर्मविकारस्य देहस्य रभसो — वेगयुक्तो
वायुः तेन विसृमरो — व्यापनशीलस्सन् समुद्रमध्ये और्व इव देहमध्ये
`वैश्वानरनाम प्राप्य वसति ; स च प्राणविद्यासु प्राण इव वैश्वानरविद्यायां
 
-