2025-01-21 07:47:54 by ambuda-bot
This page has not been fully proofread.
सर: ] प्रसङ्गात्परोक्तेन्द्रियलक्षणदूषणं प्राणस्येन्द्रियत्वसाधनानुपयोगश्च 561
सर्वार्थसिद्धिः
तिप्रसञ्जकः। आद्रष्टुराचन्द्रमसश्च कश्चिच्चक्षुरिन्द्रियावयवी तदानी-
मेव निष्पन्न इत्यत्र न किञ्चित्प्रमाणमन्यत्र संप्रदायात् । इन्द्रिय-
दोषवदिन्द्रियगुणाश्च शरीरसंयुक्तास्साक्षात्प्रमितिसाधकास्सन्ति ।
तैश्वानैकान्त्यं सुवचम् । शुद्धेष्वपि परोक्तलक्षणेषु न प्रस्तुते
तत्सिद्धिरिति ॥ ५४ ॥
प्राणस्यानिन्द्रियत्वम्.
आनन्ददायिनी
तद्वारत्वमिति भावः । ननु आद्रष्टुराविषयादेकोऽवयवी जन्यते ; तच्छ-
(च्च श)रीरसंयुक्तं प्रमितिसाधनं चेत्यत्राह — आद्रष्टुरिति । ननु भवन्मते
यथा तावद्व्यापिवृत्त्युत्पत्तिः ; यथा वा सौरा ( द्या ) लोक: ; तथाऽवयव्य-
सौरा(द्या)लोकः
प्यस्त्विति चेत्; उच्यते - किमवयवि प्रमित्यन्यथानुपपत्त्या कल्प्यते ?
उत तेषु (उतेन्द्रिय) लक्षणनिर्वाहार्थम् ? नाद्यः ; आवश्यकतावद्द व्यापि
तेजामात्रेणापि ज्ञानसंभवे तत्क्ल (तत्रक्ल) तयनपेक्षणात् । न द्वितीयः
लक्षयानुसारत्वाल्लक्षणस्य तत्कल्पकत्वायोगात् । अनैकान्त्यं— अति-
व्याप्तिरित्यर्थः । यद्वा उक्तमिन्द्रियलक्षणं न भवति ; व्यावृत्तिव्यवहार-
योस्साधनेऽनैकान्त्यमित्यर्थः । गुणानां संयोगाभावादतिव्याप्तिर्नास्ती-
त्यतो दोषान्तरमाह — प्रस्तुते इति । प्राणादेः प्रत्यक्षत्वात् तदुक्तलक्षणं
नास्तीति न ततस्तेषामिन्द्रियत्वसिद्धिरित्यर्थः ॥ ५४ ॥
प्राणस्यानिन्द्रियत्वम्
;