This page has not been fully proofread.

560
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
हङ्करणविकृतिता लक्षणं तद्धि तेषाम् ॥ ५४ ॥
 
सर्वार्थसिद्धिः
 
परोक्तलक्षणानुपपत्तेरित्यभिप्रायेणाह – लक्षणमिति । यत्तु शरीर-
योगे सत्येव साक्षात्प्रमितिसाधनं इन्द्रियमिति ; अत्र कर्मेन्द्रिये -
ष्वव्याप्तिस्तावदास्ताम् ! स्वेदादिशैत्याभिव्यञ्जकव्यजनवातादे-
रुक्तलक्षणयोगादतिव्याप्तिर्दुर्वारा । शरीरसंयुक्तमतीन्द्रियमिति
विशेषणेऽपि चाक्षुषतेजःकणानां चूर्णविक्षेपवद्विसर्पे मूलस्कन्धस्य
प्रमितिसाध (क) नत्वाभावात् अग्रस्कन्धस्य शरीरसंयुक्तत्वायोगात्
नोभयत्राप्येतद्विशिष्टमिन्द्रियलक्षणमस्ति । परम्परया संबन्धस्त्व-
 
आनन्ददायिनी
 
यावत्। तस्य प्रयोगादर्शनं तुल्यमित्यर्थः । तथा च स्वरूपासिद्धिः; लक्षणया
तदुद्धारे देहेऽपि सम इति भावः । ननु प्रमितिसाधनत्वमिन्द्रियत्वम् ;
तच्च प्राणेऽप्यस्त्येव ; प्राणस्याप्यन्वयव्यतिरेकाभ्यां मनोवत्साधन-
त्वादित्याह – परोक्तेति । नोभयत्रापीति — मूलाग्रस्कन्धयोः शरीरसंयु-
क्तस्य विषयसंयुक्तस्य चैकस्याभावादित्यर्थः । यत्प्रमितिकरणं विषय-
संयुक्तोऽग्रभागः तत् (त्वं ) परम्परया शरीरसंयुक्तमित्यत्राह — परम्परयेति ।
स्व(स्पर्श)प्रत्यक्षहेतुसंबन्धघटकवाय्वादौ त्र्यणुकपरिमाणप्रत्यक्षहेत्ववयव-
संयोगयणुकादौ अतिव्याप्तमित्यर्थः । ननु साक्षाच्छरीरयोग एव
विवक्षितः ; स च मूलस्कन्धस्यास्त्येव । नच तस्य प्रमितिसाधनत्वाभावः !
अग्रद्वारा साधनत्वादिति चेत्; उच्यते - अग्रभागस्य प्रमितिजनकत्वस्या-
वश्यकत्वे तज्जनकस्यान्यथासिद्धत्वान्न तस्य साधकत्वं मानाभावाच्च न
 
-