This page has not been fully proofread.

558
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
प्राणोऽक्षं प्राणशब्दादुपकरणतया क्षेत्रिणश्वे -
 
त्ययुक्तम् शब्दैक्यं ह्येकजात्यं
 
सर्वार्थसिद्धिः
 
व्यभिचरति
 
अत्र कश्चिदाह - 'प्राणसंवादादिष्विन्द्रियैस्सह प्राणः पठितः ।
प्राणशब्दश्च साधारणः प्रयुक्तः । चेतनो ( क्षेत्रज्ञो) पकरणत्वं च
समानम् । अतः प्राण इन्द्रियमिति । एतदनूद्य परिहरति-
प्राण इति । सहपाठमात्रं न तज्जातीयत्वसाधकमित्यभिप्रायः ।
प्राणशब्दवाच्यत्वं नेन्द्रियत्वसाधकमित्याह - शब्दैक्यमिति ।
अन्यथा अनेकार्थशब्दलोपप्रसङ्ग इति भावः । अत्र च प्राणशब्दः
आनन्ददायिनी
 
प्रसङ्गसंगत्याऽऽह— अत्र कश्चिदिति । प्राणसंवादो नाम छान्दोग्ये
 
I प्राणशब्दश्च
 
प्रकरणविशेषः; तत्प्रायपाठात्तज्जातीयत्वमित्यर्थः
साधारण इति – इन्द्रियाणां प्राणस्य च प्राणशब्दवाच्यत्वे इन्द्रियत्व-
मेव प्रवृत्तिनिमित्तं लाघवात् । तथाच समानवृत्तिनिमित्तकैकशब्दवाच्य-
त्वात्तज्जातीयत्वमित्यर्थः । किंच - प्राणादय इन्द्रियाणि चेतनोपकरण-
'त्वात् चक्षुरादिवत् इत्यभिप्रायेणाह - चेतनोपकरणत्वं चेति । सहपाठ-
मात्रमिति–सहपाठमात्रस्य प्रत्युत भेदकत्वमेव; अन्यथा वैयर्थ्यादिति भावः ।
अग्रयप्रायनयश्च सहपाठप्रयोजकधर्मातिरिक्तधर्मेण साजात्यप्रयोजको न तु
तद्धर्मेणापीति भावः । एकशब्दप्रयोगविषयत्वमपि मुख्यवृत्त्या प्रयोग-
विषयत्वं विवक्षितम् ? उतैकशक्तया ? उत प्रयोगविषयत्वमात्रम् ? इति
विकल्प्य आधे दूषणमाह-- अन्यथेति । अक्षादिपदप्रयोगविषयेषु