2025-01-21 07:47:47 by ambuda-bot
This page has not been fully proofread.
सरः]प्राणस्य देहोपादानातिरेकः, देहान्तवर्तिबहूपकारकवायुविशेषत्वं श्रुतितात्पर्यंच 557
तत्वमुक्ताकलापः
कन्यायतः प्राप्य कञ्चित् देहान्तदशविध्यं भजति
बहुविधोपक्रियो वृत्तिभेदैः ॥ ५३ ॥
सर्वार्थसिद्धिः
दाशविध्यं प्राणा (पाना) दिभेदैर्नागकूर्मादिभेदैश्च दशविधत्वम् ।
तत्तद्वृत्तिभिरुपकारप्रपञ्चस्तत्तदागमेषु ग्राह्यः । अयं चार्थो 'न
वायुक्रिये पृथगुपदेशात्' इत्यधिकरणसिद्ध: । ' आपो मयः
प्राणः' इति तु ' अन्नमयं हि सोम्य मनस्तेजोमयी वाक्' इति -
वदाप्यायनपरम् । अन्यथा अनेकशास्त्रविरोधात् ॥ ५३॥
प्राणस्य वायुविशेषत्वम्.
आनन्ददायिनी
घनस्य - मेघस्य जलं घनजलं । दाशविध्यं - दशविधत्वम् । गुणवचनत्वात्
प्यञ् । प्राणादीति - अपानोदानव्यानसमाना आदिशब्दार्थः । प्राणः-
प्रागननवान् हृदयवर्ती । आसनादिस्थानवर्ती अपानः अवागनन-
शीलः । पायुस्थानो व्यानः विषवत्संचारी सर्वशरीरव्यापकः । उदान:
कण्ठस्थानः । उत्क्रमणवायुस्समानः शरीरमध्यग (रावयवनाभिस्थानः)
शीतपित्तादिसमीकरणपरः । नागकूर्मादिभेदैश्चेति - ' कृकलदेवदत्तधन-
जया आदिशब्दार्थः । नागः - उद्भिरणकरः । कूर्म उन्मीलनहेतुः ।
कृकलः क्षुधासाधनः । देवदत्तों जृम्भणहेतुः । धनञ्जयः पोषणकरः '
इति योगरहस्ये शास्त्रे उपयोग उक्त इत्यर्थः । सूत्रकार एवामुमर्थं
निर्णीतवानित्याह--अयं चार्थ इति । नन्वव्विशेषः प्राणस्स्यात् ; तथा
श्रुतेरित्यत्राह – आपोमय इति । प्रत्यक्षविरोधाभावे तदुपादानकत्व-
विवक्षायामाह -- अन्यथेति ॥
-
प्राणस्य वायुविशेषत्वम्.
35*