This page has not been fully proofread.

556
 
सव्याख्यसर्वार्थसिद्धिसद्दिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
वायुतानुज्झनाच्च । तस्माद्वातो विशेषं घनजलकर-
 
सर्वार्थसिद्धिः
 
' पृथिव्या ओषधय' इत्यादिषु तत्प्रसङ्गात् । प्राणे च वायुत्वं न
निवृत्तम् । अतश्च न तत्वान्तरमित्याह – वायुतानुज्झनाच्चेति ।
तथाऽपि देहोपादानत्वावस्थापन्नो वायुः प्राणस्स्यात् ; किम-
धिककल्पनयेत्यत्राह—तस्मादिति । अयं भावः - ' यावद (द्धय ) -
स्मिन् शरीरे प्राणो वसति तावदायुः ' -
 
अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः ।
प्राणापानसमायुक्तः पचामि
 
'
 
इत्यादिषु देहात्पृथक्तेन प्राणवायुः प्रसिद्धः ; अतो न देहोपा -
दानवायुरसौ; किंतु योगाद्युपयुक्तशास्त्रवेद्यविशेषवान् कश्चि-
द्वायुरयमिति । वायुत्वानुवृत्तिव्यक्तयै जलमयकरकानिदर्शनम् ।
आनन्ददायिनी
 
हेतुमाह--- पृथिव्या ओषधय इति । यावद्विकाराणां परिगणना-
सम्भवात् परिगणननिमित्तं किञ्चित्प्रयोजकं वाच्यम्; तच्च पूर्व-
तत्वपरिगणननिमित्तासाधारणधर्मनिवृत्तिपूर्वकरूपान्तरं परिगणननिमित्त-
माश्रयणीयमिति प्राणे स्वोपादान (गत) वायुत्वा परित्यागान्न तत्वान्तरते-
त्यर्थः । तथापीति—तावता प्राणे वायुत्वप्रतीतिसहप्रयोगयोरुपपत्ते-
रि (त्यर्थः ) ति भावः । तस्मादित्यादिना देहोपादानावस्थाविशिष्टाद्भेदा-
प्रतिपत्तेराह — अयं भाव इति । किन्त्विति - कुण्डल्यादियोगाद्युपयुक्त-
शास्त्रवेद्यवायुतिरोधिसाधन (वेद्यवायुनिरोघस्थान) विशेषवानित्यर्थः ।